________________
पञ्चमः सर्गः
४५ अभि-मार्गे गच्छता अजेन नर्मदातटे धूसरपताकावती श्रान्ता सेना न्यवेशि, यत्र, जलकणशीतलैः पवनैः करञ्जकवृक्षाः कम्पन्ते स्म ।
हिन्दी-मार्ग में चलते हुए कुमार अज ने नर्मदा के उस तट पर धूल से धूसर पताकावाली तथा थकी हुई अपनी सेना का पड़ाव किया, जहाँ कि करञ्ज के वृक्ष, जल की बूंदों से युक्त ठंढी वायु से हिल रहे थे ॥४२॥
अथोपरिष्टाद् भ्रमरैर्धमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः । निधोतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥४३॥
सञ्जीविनी-अथोपरिष्टादूर्ध्वम् । 'उपर्युपरिष्ठात्' इति निपातः । भ्रमद्भिः मदलोभादिति भावः, भ्रमरैः प्रागुन्मजनारपूर्व सूचितो ज्ञापितोऽन्तःसलिले प्रवेशो यस्य स तथोक्तः । निर्धातदाने क्षालितमदे अत एवामले गण्डभित्ती यस्य स तथोक्तः 'दानं गजमदे त्यागे' इति शाश्वतः। प्रशस्तौ गण्डौ गण्डभित्ती 'प्रशंसावचनैश्च' इति समासः। भित्तिशब्दः प्रशस्तार्थः । तथा न गणरत्नमहोदधौ-'मतल्लिकोद्घमिश्राः स्युः प्रकाण्डस्थलभित्तयः' इति । प्रदेशो वा 'भित्तिः प्रदेशे कुड्येऽपि' इति विश्वः । निधौतदानेनामला गण्डभित्तियस्येति वा । वन्यो गजः सरित्तो नर्मदायाः सकाशात् पञ्चम्यास्तसिल्प्रत्ययः, उन्ममनोत्थितः ॥४२॥
अन्वयः-अथ, उपरिष्टात्, भ्रमद्भिः, भ्रमरैः, प्राक्सूचितान्तःसलिल. प्रवेशः, निधौतदानामलगण्डभित्तिः, वन्यः, गजः, सरित्तः उन्ममज्ज । __ वाच्य०-प्राक्सूचितान्तःसलिलप्रवेशेन निधौतदानामलगण्डभित्तिना वन्येन, गजेन उन्ममज्जे ।
व्याख्या-अथ सेनानिवेशानन्तरम् । उपरिष्टात् उपरि, जलोर्ध्वप्रदेश इत्यर्थः। भ्रमद्भिः प्रसरद्भिः मदलोभादिति भावः। भ्रमरैः=दिरेफैः । सलिलस्य जलस्य, अन्तः अभ्यन्तरे अन्तःसलिलम् । अन्तःसलिले प्रवेशः= गमनम्, इति अन्तःसलिलप्रवेशः। प्राक्=पूर्वम्, सूचितः विज्ञापितः, अन्तःसलिलप्रवेशः यस्य सः प्रान्सूचितान्तःसलिलप्रवेशः । निःशेषेण आधिक्येन, धौतम्-प्रक्षालितम् इति निर्धातम्, दानम् मदः ययोः ते निधौतदाने, अत एव अमले स्वच्छ इति निर्धातदानामले, गण्डौ-कपोलो एव भित्ती =प्रदेशौ इति गण्डभित्ता, निर्धातदानामले गण्डभित्ती यस्य सः निर्धेत