________________
पञ्चमः सर्गः और अज की अवस्था को भी विवाह के उपयुक्त जानकर उसे सेना सहित विदर्भ देश की राजधानी की ओर मेज दिया ॥ ४० ॥
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः । मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥४१॥
सञ्जीविनी-उपकार्यासु राजयोग्येषु पटभवनादिषु 'सौधोऽस्त्री राजन्दनमुपकार्योपकारिका' इत्यमरवचनव्याख्याने क्षीरस्वामी। उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति । रचिता उपचाराः शयनादयो येषु ते तथोक्ता जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः वन्या बने भवा इतरे येषां ते वन्येतराः अवन्या इत्यर्थः । 'न बहुव्रीहौ' इति सर्वनामसंज्ञानिषेधः। तत्पुरुषे सर्वनामसंज्ञा दुरैव । तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः 'पुमानाकोड उद्यानम्' इत्यमरः। तान्येव विहारा विहारस्थानानि तत्कल्पाः तत्सदृशाः 'ईषदसमाप्तौ०' इति कल्पप्प्रत्ययः । बभूवुः ॥ ४१ ॥
अन्वयः--उपकार्यारचितोपचाराः, जानपदोपदाभिः वन्येतराः, तस्य, मनुजेन्द्रसूनोः, मार्ग, निवासाः, उद्यानविहारकल्पाः बभूवुः। - वाच्य०-उपकार्यारचितोपचारैः वन्यैः निवासैः उद्यानविहारकल्पैः, बभूवे ।
व्याख्या-उपक्रियन्त इत्युपकार्या: पटभवनानि, उपकार्यासु रचिताःसम्पादिताः, उपचाराः शयनादयः येषु ते उपकार्यारचितोपचाराः । जनपदेभ्यः= प्रान्तेभ्यः, आगताः जानपदाः, जानपदानाम् उपदा: उपायनानि इति जानपदोपदार, ताभिः जानपदोपदाभिः। वने-अरण्ये भवा वन्याः, इतरेअन्ये, येषान्ते वन्येतराः अवन्या इत्यर्थः। तस्य अजस्य । मनुजानाम् = मनुष्याणाम् , इन्द्रः स्वामी मनुजेन्द्रः राजा रघुरित्यर्थः, मनुजेन्द्रस्य सूनुः= पुत्रः इति मनुजेन्द्रसू नुः, तस्य मनुजेन्द्रसूनोः। मार्ग पथि । निवासाः= वासस्थलागि । उद्यानानि = आक्रीडाः, एव विहाराः विहरणस्थानानि इति उद्यानविहाराः, ईषदूनाः उद्यानविहाराः इति उद्यानविहारकल्पाः। बभूवुः= आसन् । ___ समा०-उपक्रियन्ते इति उपकार्याः, उपकार्यासु रचिताः उपचाराः येषु ते उपकार्यारचितोपचाराः। जनपदेभ्यः आगताः जानपदाः, जानपदानामुपदाः जानपदोपदाः, ताभिः । वने भवा वन्याः इतरे येषान्ते वन्येतराः। मनुजानामिन्द्रः