________________
पञ्चमः सर्गः
यस्य सः आनंतपूर्वकायः, तम् आनतपूर्वकायम् | प्रजानाम् = लोकानाम्, ईश्वरः = स्वामी प्रजेश्वरः, तम् प्रजेश्वरम् = राजानं रघुम् । करेण = हस्तेन स्पृशन् = स्पर्श कुर्वन् । वाचम् = वचनम् | उवाच = जगाद |
समा० - प्रीतम् मन ः यस्य सः प्रीतमनाः । महान् चासौ ऋषिः महर्षिः । उष्ट्राश्च वाम्यश्च उष्ट्रवाम्यः, उष्ट्रवामीनाम् शतम् उष्ट्रबामीशतम्, उष्ट्रवामीशतेन वाहितः अर्थः येन सः उष्ट्रवामीशतवाहितार्थः, तम् उष्ट्रवामीशतवाहितार्थम् । पूर्वे कायस्य इति पूर्वकाय, आसमन्तात् नतः आनतः, आनतः पूर्वकायः यस्य सः आनतपूर्वकायः, तं आनतपूर्वकायम् । प्रकर्षेण जायन्ते इति प्रजाः, ईष्टे इति ईश्वरः प्रजानाम् ईश्वरः तं प्रजेश्वरम् ।
३५
अभिः- ततः प्रसन्नः कौत्सो रघुप्रदत्तेन क्रमेलका श्वेषु संस्थापितेन धनराशिना सह प्रस्थातुमिच्छन्, शिरसा नम्रीभूतं राजानं रघुं करेण स्पृशन् एवमुवाच । हिन्दी - तत्र रघु की दी हुई, ऊँटों और खच्चरों पर लादी, धनराशि के साथ चलने को तैयार एवं प्रसन्न हुए कौरस, नम्रता से मस्तक अत्यन्त झुकाये हुए रघु के शिर पर हाथ फेरते हुए इस प्रकार बोले ||३२||
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ||३३|| संजीविनी - वृत्ते स्थितस्य । 'न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्' इति कामन्दकः । तस्मिन्वृत्ते स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामान्सूत इति कामसूर्यदि 'सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विपू' इति क्विप् । अत्र कामप्रसवने किं । चित्रम् | न चित्रमित्यर्थः । किंतु तव प्रभावो महिमा स्त्वचिन्तनीयः । येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा । दुहेर्द्विकर्मकत्वादप्रघाने कर्मणि क्तः । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मण: ' इति स्मरणात् ॥ ३३॥
अन्वयः - वृत्ते, स्थितम्य, प्रजानां अधिपतेः, भूः, कामसूः, यदि अत्र, किम्, चित्रं, तु, तव, प्रभावः, अचिन्तीयः, येन, द्यौः, अपि, मनीषितं दुग्धा ।
बाच्य० – भुवा, कामसुवा, यदि, 'भूयते' अत्र, केन, चित्रेण भूयते' तु, तब, प्रभावेण, अचिन्तनीयेन भूयते । येन त्वम्, द्याम् अपि मनोषितं दुग्धवान् ।