________________
२२
रघुवंशमहाकाव्ये अध्वरः यज्ञः येन सः विहिताध्वरः, तस्मै विहिताध्वराय । स्मयस्य गर्वस्य, आवेशः अभिनिवेशः इति स्मयावेशः, स्मयावेशेन विवर्जितः रहितः इति स्मयावेशविवर्जितः, तस्मै श्मयावेशविवर्जिताय । वर्णाः-ब्राह्मणक्षत्रियविटशूद्राश्च, आश्रमा: ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्च वर्णाश्रमाः, तेषां वर्णाश्रमाणाम् । गुरवे=नियन्चे । तस्मै रघवे । विचक्षणः विद्वान् । वर्णी=ब्रह्मचारी, अ: कौत्सः । प्रस्तुतम् प्रकृतवृत्तम् । आचचक्षे-कथयामास ।
समा०—विहितः अध्वरः येन सः विहिताध्वरः, तस्मै विहिताध्वराय । स्मयस्य आवेशः स्मयावेशः, स्मयावेशेन विवर्जितः स्मयावेशविवर्जितः, तस्मै स्मयावेशविवर्जिताय ! वर्णाश्च आश्रमाश्च वर्णाश्रमाः, तेषां वर्णाश्रमाणाम् ।
अभि०-ततः स ब्रह्मचारी विद्वान्कौत्सः शास्त्रविधिना संपादितविश्वजिद्यशं तथापि गवरहितं चतुर्णामपि वर्णानामाश्रमाणां च नियामक रघु प्रति प्रस्तुतवृत्तान्तमाख्यातवान् ।
हिन्दी-तब उस ब्रह्मचारी विद्वान् कौत्स ने शास्त्रविधि से विश्वजित् नामक यश को पूर्ण करने पर भी गवरहित तथा चारों वर्णों एवं आश्रमों के नियामक राजा रघु से प्रस्तुत वृत्तान्त कह सुनाया ।। १६ ।। ।
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभद् गुरुदक्षिणायै । स मे चिरायासवलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ।। २० ॥
सजीविनी-समाप्तविद्येन मया महर्षिर्गुरुदक्षिणाये गुरुदक्षिणास्वीकारार्थ विज्ञापितोऽभूत् । स च गुरुश्चिरायास्खलितोपचारां तां दुष्करां मे भक्तिमेव पुरस्तात्प्रथममगणयत्संख्यातवान् । भक्त्यैव संतुष्टः किं दक्षिणयेत्युक्तवानित्यर्थः । अथवा भक्तिमेव तां दक्षिणामगणयदिति योज्यम् ।। २० ।।
अन्वयः-समातविद्येन मया, महर्षिः, गुरुदक्षिणाय, विज्ञापितः, अभूत् , सः, 'च', चिराय, अस्खलितोपचाराम, ताम्, मे भक्तिम् , एव, पुरस्तात् , अगणयत् ।
वाच्य०-समाप्तविद्यः, अहम्, महषिम् , गुरुदक्षिणायै विज्ञाप्तिवान् , भभूवम् । तेनं अस्खलितोपचारा, सा, मे, भक्तिः एव, अगण्यत ।
व्याख्या-समाप्ताः अधीताः, विद्याः-शास्त्राणि येन सः समाप्तविद्यः, तेन समातविद्येन । मया कौत्सेन । महर्षिः वरतन्तुः। गुरोः उपाध्यायस्य, दक्षिणा सत्कृत्य देयं द्रव्यम् इति गुरुदक्षिणा, तस्यै गुरुदक्षिणायै । विज्ञापितः=