________________
रघुवंश की सूक्तियाँ
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥८॥८७॥ श्रवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ॥८८॥ स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ ॥ ८ ॥८६॥ द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥८०॥
पथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥६॥७४॥ कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥६॥८०॥
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेहि लक्षणम् ॥१०॥६॥ रसान्तराण्येकरसं दिव्यं पयोऽश्नुते ||१०|१७॥
xxxi
तेजसां हि न वयः समीक्ष्यते ॥११॥१॥ अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थता ॥११॥२॥ किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥११॥२७॥ सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलर्धाम काक्षितम् ॥११॥५०॥ पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥ ११॥७५॥ खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥११॥७६॥ निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ११८ ॥ तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥११॥६२॥
प्रत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥१२॥३३॥
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥१२॥६६॥
यशोधनानां हि यशो गरीयः || १४ | ३५ ॥
लोकापवादो बलवान् मतो मे ॥१४॥४०॥
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ १४ ॥ ४० ॥
प्रज्ञा गुरूणां ह्यविचारणीया ॥१४॥४६॥
नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्त्रवृक्षम् ॥१४॥४८ ॥ मोहादभूत्कष्टतरः प्रबोधः || १४|५६ ॥ श्रुतस्य किं तत्सदृशं कुलस्य ॥१४॥ ६१ ॥