________________
XXX
रघुवंशमहाकाव्य
सूर्ये तपत्यावरणाय दृष्टः कल्पेत लोकस्य कथं तमिस्रा ॥५॥१३॥ पर्यायपीतस्य सुरैहिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धः ॥५॥१६॥ निर्गलिताम्बुगर्भ शरद्धनं नार्दति चातकोऽपि ॥५॥१७॥ उष्णत्वमग्न्यातपसंप्रयोगाच्छत्यं हि यत्सा प्रकृतिर्जलस्य ॥५॥५४॥
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥६॥२२॥ भिन्नरुचिहि लोकः॥६॥३०॥ सिद्धाश्रमं शान्तमिवैत्य सत्वर्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥६॥४६॥ न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङक्षति षट्पदाली ॥६॥६६॥ रत्नं समागच्छतु काञ्चनेन ॥६॥७९॥ शशिनमुपगतेयं कौमुदी मेघमुक्तम् ॥६॥८५॥ जलनिधिमनुरूपं जह्नकन्यावतीर्णा ॥६॥८॥
मनो हि जन्मान्तरसङ्गतिज्ञम् ॥७॥१५॥ (तस्मादपावर्तत) पर्वात्यये सोम इवोष्णरश्मेः ॥७॥३३॥ अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूमः ॥७॥४३॥ धूमो निव]त समीरणेन यतस्तु कक्षस्तत एव वह्निः ॥७॥५५॥ न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥७७१॥ वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥३१॥ ननु तैलनिकेषबिन्दुना सह दीपाचिरुपैति मेदिनीम् ॥८॥३८॥ प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥८॥४०॥ अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥८॥४३॥ विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥८॥४६॥ घिगिमां देहभृतामसारताम् ॥८॥५१॥ समदुःखसुखः सखीजनः ॥६॥ विपदुत्पत्तिमतामुपस्थिता ॥८८३॥ परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥८॥ स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥८॥८६॥ मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ॥८८७॥