________________
चतुर्थः सर्गः अन्वयः-चरताम्, वाहानाम्, गात्रशिञ्जितैः, वर्मभिः, पवनोतराजवालीवनध्वनिः, अभ्यभूयत ।
वाच्य -गात्रशिञ्जितानि वर्माणि पवनोद्धृतराजतालीवनध्वनिम् अभ्यभवन् ।
व्याख्या-चरताम्=चलताम् । वाहानाम् घोटकानाम् । गात्रेषु - शरीरेषु शिञ्जितैः - शब्दायमानः । बर्मभिः = कवचैः। पवनेन - वायुना, उद्धृतानि - कम्पितानि इति पवनोद्धृतानि, तानि । राजतालीनां = तालीनां । वनानि = भरप्यानि, तेषाम् ध्वनिः शब्दः । अभ्यभूयत = तिरस्कृतः।।
समा-- गात्रेषु शिञ्जितानि गात्रशिञ्जितानि, तैः गात्रशिञ्जितैः । राजतालीनां वनानि राजतालीवनानि, पवनेन उद्धृतानि पवनोद्धृतानि, पवनोद्धतानि च तानि राजतालीवनानि च पवनोद्धृतराजतालीवनानि, पवनोद्धृतराजतालीवनानां ध्वनिः पवनोद्धृतराजतालीवनध्वनिः ।
अभि०-रघुसेनावाजिनां गात्रेषु कवचेभ्यः समुत्पन्नः ध्वनिः वायुकम्पितवालपत्रध्वनि न्यक्कृतवान् ।
हिन्दी-रघु के घोड़ों पर स्थित कवचों से जो ध्वनि निकल रही थी उससे तालवृक्ष के वनों की ध्वनि फीकी पड़ गई ॥ ५६ ॥
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥ ५७॥ सञ्जीविनी-खर्जूरीणां तृणद्रुमविशेषाणाम् । 'खजूरः केतकी ताली बर्जूरी च तृणद्रुमाः' इत्यमरः । स्कन्धेषु प्रकाण्डेषु । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः' इत्यमरः। नद्धानां बद्धानां करिणां मदोद्गारेण मदसावेण सुगन्धिषु । “गन्धस्येदुत्पूतिसुसुरभिभ्यः" इत्यनेनेकारः । कटेषु गण्डेषु पुन्नागेभ्यो नागकेशरेग्यः पुग्नागपुष्पाणि विहाय । ल्यब्लोपे पञ्चमी। शिलीमुखा अलयः पेतुः । 'अलिबाणौ शिलीमुखौ' इत्यमरः । ततोऽपि सौगन्ध्यातिशयादिति भावः ॥५७॥ . . अन्वयः-- खजूरीस्कन्धनद्धानाम्, करिणाम्, मदोद्गारसुगन्धिषु, कटेषु, पुन्नागेभ्यः, शिलीमुखाः पेतुः।
वाच्य---शिलीमुखः पेते ।