________________
४८
रघुवंशमहाकाव्ये __ सञ्जीवनी-मुरला माम केरलदेशेषु काचिन्नदी । 'मुरलीमारुतोद्भूतम्' केचित्पठन्ति । तस्या मारुतेनोद्भूतमुत्यापितं केतकं केतकीसंबन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम् । 'कञ्चुको वारवाणोस्त्री' इत्यमरः । अयत्नपटवासतामयत्नसिसवस्त्रवासनाद्रव्यत्वमगमत् । 'पिष्टातः पटवासकः' इत्यमरः ॥५५॥
अन्वयः-मुरलामारुतोद्भुतं, कैतकं, रजः, तद्योधवारबाणानाम् , अयत्नपटवासताम्, अगमत् ।
वाच्यः ---मुरलामारुतोद्भूतेन कैतकेन रजसा अयत्नपटवासता अगामि ।
व्याख्या--मुरला = तन्नाम्नी काचित्केरलीया नदी, तस्याः = पवनः मुरलामारुतः, तेन उद्धृतम् - समुत्थापितम् । केतक्या इदं कैतकम् =केतकीपुष्पसम्बन्धि, रजः =धूलिः । तस्य=रघोः, ये योधाः=भटाः, तेषां ये वारबाणा:कञ्चुकाः तद्योधबाणाः, तेषां । पटान् वासयतीति पटवास:-वस्त्रवासकः, अविद्यमानो यत्नो यस्यासावयत्नः, स चासो पटवासः, तस्य भावस्तत्ता, ताम् अपत्नपटवासताम् । अगमत् =प्राप ।
समा०- मुरलाया मारुतः मुरलामारुतः, मुरलामारुतेन उद्भूतं मुरलामारुतोद्धृतम् । केतकस्य इदं कैतकम् । तस्य योधाः तद्योधाः, तद्योधानां वारबाणाः तद्योधवारबाणाः, तेषां तद्योधवारबाणानाम् । पटं वासयतीति पटवासः, न विद्यते यत्नो यस्य स अयत्नः, अयत्नश्चासौ पटवासश्च अयत्नपटवासः, अयत्नपटवासस्य भावः अयत्नपटवासता, ताम् अयत्नपटवासताम् ।
अभि०-मुरलानदीपवनवशादुत्थितेन केतकीरजसा रघुसेनाकञ्चुकेषु निपत्य प्रयासं विनैव वस्त्रसुरभीकरणकार्यमकारि ।
हिन्दी-मुरला नामक नदी के वायु से उड़े हुए केतकीपुष्प के पराग ने रघु के सैनिकों के कञ्चुकों के ऊपर गिरते हुए बिना प्रयास के सुगन्धित चूर्ण का कार्य किया ।।५।।
अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्मभिः पवनोद्धृतराजतालीवनध्वनिः ।। ५६ ॥ सञ्जीविनी---चरतां गच्छतां वाहानां वाजिनां 'वाजिवाहार्वगन्धर्वहयसैन्यवसप्तयः' इत्यमरः । गात्रशिञ्जितैर्गात्रेषु शब्दायमानः । कर्तरि क्तः । वर्मभिः कवचैः । पवनेनोद्धतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत तिरस्कृतः॥