________________
रघुवंश महाकाव्ये
व्याख्या--न नम्रा अनम्रास्तेषाम् अनम्राणाम् = उद्धतानाम् । समुद्धर्तुः = समुत्पाटयितुः । तस्मात् = रघोः । सिन्धोः = समुद्रस्य यो रयो वेगस्तस्मात् सिन्धुरयात् । इव = यथा । सुह्येः = सुह्मदेशीयैः । क्षत्रियैः । वेतस इयं वैतसी, ताम् = वेतससम्बन्धिनीम् प्रणतिमित्यर्थः । वृत्तिम् = व्यवहारम् । प्राश्रित्य === अवलम्व्य, श्रात्मा देहः । संरक्षितः = परिपालितः ।
३२
समा०--न नम्राः प्रनम्राः तेषाम् प्रनम्राणाम् । सिन्धोः रयः सिन्धुरयः तस्मात् सिन्धुरयात् । श्रततीत्यात्मा ।
अभि०- ० - - यथा सिन्धुवेगे श्रागते वेतसा नम्रीभूय स्वरक्षा क्रियते, उद्धता वृक्षास्तु भग्ना भवन्ति तथैव सुह्य देशीयैः क्षत्रियैः रघुपादयोः प्रणति कृत्वा स्व
रक्षा कृता ।
हिन्दी -- जैसे कि समुद्र के वेग के प्राने पर वेतस वृक्ष झुककर अपनी रक्षा कर लेते हैं वैसे ही सुह्मदेशीय क्षत्रियों ने रघु के श्रागे प्रणिपात के द्वारा अपनी रक्षा की ॥ ३५ ॥
वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।
निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ ३६ ॥
सञ्जीविनी -- नेता नायक: स रघुनभिः साधने रुद्यतान्सन्नद्धान्वङ्गान्राज्ञस्तरसा पलेन । 'तरसी बलरंहसी' इनि यादवः । उत्खायोन्मूल्य गंगायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्तम्भान्निचखान । स्थापितवानित्यर्थः || ३६॥
अन्वयः --नेता, सः, नौसाधनोद्यतान् वङ्गान्, तरसा, उत्खाय, गङ्गास्रोतोऽन्तरेषु, जयस्तम्भान् निचखान ।
वाच्य० - नेत्रा तेन जयस्तम्भाः निचनिरे ।
व्याख्या -- नेता= नायकः, सः = रघुः । नावः = नौका एव साधनानि उपायास्तैरुद्यतान् = सन्नद्धान् वङ्गान् = बङ्गदेशीयान् राज्ञः । तरसा = बलेन । उत्खाय === उत्पाट्य उन्मूलनं कृत्वेत्यर्थः । गङ्गायाः = भागीरथ्याः स्रोतांसि = प्रवाहाः, तेषामन्तरेषु मध्यद्वीपेषु । जयस्तम्भान् = विजययूपान् । निचखान= निखातवान् ॥
समा० - नाव एव साधनानिं नौसाधनानि, नौसाधनैः उद्यताः नौसाधनोद्यताः, तान् नौसाधनोद्यतान् । वङ्गानां राजानः वङ्गाः, तान् वङ्गान् । गङ्गायाः