________________
चतुर्थः सर्गः स्यक्प्रत्ययः। तांस्तान् सर्वावित्यर्थः। वीप्सायां द्विरुक्तिः। जनपदान्देशाना. क्रामस्तालीवनः श्यामं महोदधेरुपकण्ठमन्तिकं प्राप ।
अन्वयः-जयी, एवम्, पौरस्त्यान्, तान्, तान्, जनपदान्, आक्रामन्, तालीवनश्यामम्, महादधेः, उपकण्ठम्, प्राप ।
वाच्य-जयिना आक्रामता तालीवनश्यामः प्रापे ।
व्याख्या-जयी-जयनशीलः, रघुः । एवम् इत्थम् । पुरोभवाः पौरस्त्याः, तान पौरस्त्यानपूर्वदिग्भवान् । जनपदान देशान् । माक्रामन् स्वायत्तीकुर्वन् । तालीनां तालवृक्षाणां, वनानि काननानि, तैः श्यामं = कृष्णम् । महाश्चासावुदधिस्तस्य महोदधेः = सागरस्य । उपकण्ठम् = समीपम् । प्राप=प्राप्नोत् ।
समा०-जेतुं शीलमस्येति जयी। तालीनां वनानि तालीवनानि, ताली. धनः श्यामः तालीवनश्यामः, तं तालीवनश्यामम् । उपगतः कंठमित्युपकण्ठः, तमुपकण्ठम् । महाश्चासौ उदधिश्च महोदधिः, तस्य महोदधेः ।
अभिल-एव रघुः सर्वत्र विजयं कुर्वन् तालीवनेन कृष्णं समुद्रस्य तटसमीपं जगाम।
हिन्दी-इस प्रकार रघु पूर्व दिशा में सर्वत्र विजयी होते हुए तालीवन से कृष्णवर्णवाले समुद्र तट पर पहुँचे ॥३४॥
अनम्राणां समुद्धर्तस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुझैवृत्तिमाश्रित्य वैतसीम् ॥३५॥ सञ्जीविनी--प्रनम्राणाम् । कर्मणि षष्ठी। समुद्धतुरुन्मूलयितुस्तस्माद्रघोः सकाशात् । 'भीत्रार्थानां भयहेतुः' इत्यपादानत्वात्पञ्चमी । सिन्धुरयान्नदीवेगादिव सुौः सुह्मदेशीयः सुह्मादयः शब्दा जनपदवचनाः क्षत्रियमाचक्षते। वैतसीं वेतसः सम्बन्धिवीं वृत्तिम् । प्रणतिमित्यर्थः । प्राश्रित्य । आत्मा संरक्षितः । अत्र कौटिल्यः 'बलीयसाभियुक्तो दुर्बल: सर्वत्रानुप्रणतो वेतसधर्ममातिष्ठेत्' इति ॥३५॥
अन्वयः -प्रनम्राणाम्, समुद्धर्तुः, तस्मात् सिन्धुरयात्, इव, सुमः, वैतसीम्, वृत्तिम्, पाश्रित्य, प्रात्मा, संरक्षितः ।
वाच्य०-सुह्मा:, प्रात्मानं संरक्षितवन्तः ।