________________
रघुवंशमहाकाव्ये गुरी दिलीपविषये । सहकारस्य पाम्रस्य, फलेन=प्रसवेन, पुष्पाणां कुसमा नामुद्गमे = प्रसूनोदये, इव-यथा । गुण:=प्रौदार्यादिभिः । अधिकतया अधिकस्वेन, मन्दा उत्कण्ठा यासां ताः मन्दोत्कण्ठाः स्वल्पौत्सुक्या:, कृताः विहिताः ।
समा०-पुष्पस्य उद्गमः पुष्पोद्गमः, तस्मिन् पुष्पोद्गमे । गुणैरधिकः गुणाधिकः, गुणाधिकस्य भावः गुणाधिकता, तया गुणाधिकतया । मन्दा उत्कण्ठा यासां ताः मन्दोत्कण्ठाः ।
अभि०-यथा जना प्रामस्य फलं प्राप्य तत्कलिकायां न्यूनादरा भवन्ति तथैव रघोर्दयादाक्षिण्यादिगुणानवलोक्य दिलीपं प्रति मन्दोत्कण्ठा बभूवुः ।।
हिन्दी-जिस प्रकार मनुष्य प्राम के फल को प्राप्त करके प्राम के बोर के प्रति कम आदर करनेवाले हो जाते हैं उसी प्रकार रधुके गुणों से सन्तुष्ट प्रजा दिलीप के गुणों को भूल गई ।। ६ ।।
नयविद्भिनवे राज्ञि सदसच्चोपदर्शितम्। .
पूर्व एवाभवत् पक्षस्तस्मिन्नाभवदुत्तरः ।। १० ।। सञ्जीविनी-नयविद्भिर्नीतिशास्त्रज्ञेनवे तस्मिन्राज्ञि विषये । तमधिकृत्येत्यर्थः। सद्धर्मयुद्धादिकमसत्कूटयुद्धादिक चोपदर्शितम् । तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत् । संक्रान्त इत्यर्थः । उत्तरः पक्षो नाभवत् । न संक्रान्त इत्यर्थः । तत्र सदसतोर्मध्ये सदेवाभिमतं नासत् । तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः । पक्षः साधनयोग्यार्थः । 'पक्षः पार्श्वगरुत्साध्यसहायबल भित्तिषु' इति केशवः ॥ १० ॥
अन्वयः-नयविद्भिः, नवे, राज्ञि, सद्, प्रसद्, च, उपदर्शितम्, तस्मिन्, पूर्वः, पक्षः, एव, प्रभवत्, उत्तरः, न, अभवत् ।
वाच्य०-नयविदः, सद्, प्रसद्, च, उपदर्शितवन्तः, पूर्वेण, एव, पक्षेण, अभूयत, उत्तरेण, न ।
व्याख्या-नयं नीतिशास्त्र विदन्तीति, तैः नयविद्भिः नीतिशास्त्रमर्मजः। सत्-सत्पक्ष: धर्मयुद्धादिकम् । असत् = असत्पक्ष: कूटयुद्धादिकं च । उपदसितम् = निवेदितम् । तस्मिन्राज्ञि रघो। पूर्वः पक्ष: धर्मयुद्धपक्षः, एव, अभवत: प्रभूत् । उत्तरः= कूटयुद्ध पक्षः। न अभवत् = नाभूत् ।
समा०-नयं विदन्तीति नयविदः, तैः नयविद्भिः ।