________________
चतुर्थः सर्गः
नभस्वान्वायुरिव । मलयानिल इवेत्यर्थः । युक्तदण्डतयेत्यत्र कामन्दक:-'उद्वे. जयति तीक्ष्णेन मृदुना परिभूयते । दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते' इति ॥८॥
अन्वयः-हि,सा, युक्तदण्डतया, सर्वस्य, लोकस्य, मनः, नातिशीतोष्णः, दक्षिणः, नभस्वान्, हव, प्राददे ।
वाच्य०-तेन नातिशीतोष्णेन, दक्षिणेन, नभस्वता, इव मनः माददे ।
व्याख्या-हि-यतः । सः-रघुः। युक्तो दण्डो यस्य सः, तस्य भावस्तत्ता तया=यथापराधदण्डत्वेन । सर्वस्य = निखिलस्य, लोकस्य प्रजावर्गस्य । मन:-चित्तम्, न अतिशीत: उष्णश्च भवतीति नातिशीतोष्णः-समशीतोष्णः, दक्षिणः=दक्षिण दिग्भवः, नभस्वान् =वायुरिव, माददेवशीचकार ।
समा०-युक्तः दण्डः यस्य सः यक्तदण्डः, युक्तदण्डस्य भावः युक्तदण्डता, तया युक्तदण्डतया। शीतश्चासौ उष्णश्च शीतोष्णः, अत्यन्तं शीतोष्णः प्रतिशीतोष्णः, न अतिशीतोष्णः नातिशीतोष्णः ।
अभि०-यथा दक्षिण दिग्भवो वायः समशीतोष्णः सन् सर्वेषां मनो वशीकरोति तथैव नातिमृदुना नातिकठिनेन दण्डेन रधुरपि सर्वेषां मनो वशीचकार।
हिन्दी-जैसे कि दक्षिण दिशा का वायु न अधिक ठंढा न प्रधिक गर्म होने के कारण मनुष्यों का मन हरण करता है उसी प्रकार राजा रघु ने भी अपराधानुसार दण्ड देकर सब मनुष्यों का मन हरण किया ॥ ८॥
मन्दोत्कण्ठाः कृतान्तेन गुणाधिकतया गुरौ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ।।६।। सञ्जीविनी-तेन रघुरणा प्रजा गुरौ दिलीपविषये । सहकारोऽतिसौरभरचूतः । हाम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । तस्य फलेन पृष्पोद्गमे पुष्पोदय इव ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पोत्सुक्याः कृताः । गुणोत्तरश्चोतरो विषयः पूर्व विषयं विस्मारयतीति भावः ॥ ६ ॥
अन्वयः- तेन, प्रजाः, गुरी, सहकारस्य, फलेन, पुष्पोद्गमे, इव, गुणा. धिकतया, मन्दोत्कण्ठाः, कृताः।
वाच्य-सः,प्रजाः, गुरी,ततोऽपि गुणाधिकतया, मन्दोत्कण्ठाः कृतवान् । व्याख्या-तेन राजा रघुणा । प्रजाः प्रकर्षण जायन्त इति प्रजाः जनाः।