________________
चतुर्थः सर्गः
उध्वं प्रस्थिता उल्लसिताश्च नयनपंक्तयो यास ताः सप्रजाः ससंतानाः प्रजाः जनाः 'प्रजा स्यात्संतती जने' इत्युभयत्राप्यमरः । ननन्दुः ।। ३ ॥ . अन्वयः-पुरुहूतध्वजस्य, इव, तस्य नवाभ्युत्थानदशिन्यः, उन्नयनपङ्क्तयः, सप्रजाः, प्रजाः, ननन्दुः।
वाच्य-नवाभ्युत्थानशि नीभिः उन्नयनपंक्तिभिः सप्रजाभिः प्रजाभिः सः ननन्दे ।
व्याख्या---पुरुहूतस्य इन्द्रस्य ध्वजस्य = पताकायाः इव = यथा, तस्य= रघोः । नवं-नूतनं यदभ्युत्थानमभ्युदयस्तत् पश्यन्तीति तादृश्यः, ऊध्वं प्रस्थिताः नयनानां = नेत्राणां पङ्क्तयो यासां ताः उन्नयनपङ्क्तयः-ऊव्वंदर्शनोन्मुखाः । प्रजाभिः = सन्तानः सह वर्तमानाः सप्रजाः, प्रजा:=जना: "प्रजा स्यात्सन्तती जने" इत्यमरः । ननन्दुः अनन्दन् ।
समा०-पुरुहूतस्य ध्वजः पुरुहूतरजः तस्य पुरुहूतध्वजस्य । नवञ्च तदभ्युत्थानञ्च नवाभ्युत्थान नवाभ्युत्थान पश्यन्तीति नवाभ्युत्थानदर्शिन्यः । नयनानां पङ्क्तयः नयनपङ्क्तयः, उद्गता: नयनपङ्क्तयो यासां ता उन्नयनपङ्क्तयः । प्रजाभिः सह वर्तन्त इति सप्रजाः।
अभि०-यथा सन्तानसहिताः. प्रजा इन्द्रध्वजाभ्युत्थानं दृष्ट्वा प्रसन्नाः भवन्ति तथैव रघोरपि नवाभ्युदयमवलोक्य बभूवुः ।
हिन्दी०-जिस प्रकार इन्द्रध्वजोत्थान से सन्तान सहित प्रजा ऊपर को दृष्टि किये प्रसन्न होती है उसी प्रकार रघु के अभ्युदय से भी समस्त प्रजा प्रसन्न हुई ।
सममेव समाकान्तं द्वयं द्विरद्गामिना।
तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ४ ॥ सञ्जीविनी-द्विरद इव गच्छतीति तेन द्विरदैश्च गच्छतीति वा द्विरदगामिना । 'कर्तयुपमाने' इति 'सुप्यजातौ' इति च णिनिः । तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्टितम् । कि तद्द्वयम् । पितुरागतं पिपम् । 'पितुर्यत्' इति यत्प्रत्ययः । सिंहासनम् । अखिलमरीणां मण्डलं राष्ट्र च ॥ ४ ॥
अन्वयः-द्विरदगामिना, तेन, समम्, एव, द्वयम् समाक्रान्तम्, पित्र्यम्, सिंहासनम्, अखिलम्, परिमण्डलम्, च ।
बाच्य०-द्विरदगामी, सः, समम्, एव द्वयम्, समाक्रान्तवान् । व्याख्या-द्वी रदी यस्य स द्विरदो- गजः, स इव गच्छतीति, तेन