________________
रघुवंशमहाकाव्ये
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
पूर्व प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥२॥ सञ्जीविनी-- दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं त रघु निशम्याकण्यं पूर्व दिलीपकाले राज्ञां हृदये प्रकर्षण घूमोऽस्य संजातः प्रधूमितोऽग्निरुत्थित इव प्रज्वलित इव । पूर्वेभ्योऽधिकसंतापोऽभूदित्यर्थः । राजकर्तृकस्यापि निशमनस्या. ग्दावुपचारान्न समानकर्तृकत्वविरोधः ॥ २ ॥
अन्वयः-दिलीपानन्तरम्, राज्ये, तं प्रतिष्ठितम्, निशम्य, पूर्वम्, राज्ञाम् हृदये, प्रधूमितः, अग्निः , उत्थितः, इव 'प्रभूत्' ।
वाच्य०-प्रधूमितेनाग्निा उत्थितेन इव प्रभावि।
व्याख्या-दिलीपानन्तरम् = दिलीपस्यानन्तरं, दिलीपे वनं गते सतीत्यर्थः । राज्ये = राज्ञो भाव: कर्म वा तस्मिन्, राष्ट्रमण्डले, प्रतिष्ठितम्=कृता. घिष्ठानम्, 'रघुम्' निशम्य = श्रुत्वा । पूर्वम् = दिलीपराज्यसमये। राज्ञाम् = महीपालानाम्, हृदये=मनसि । प्रधूमित:-प्रकर्षेण धूमोऽस्य संजातः, धूमयुक्तः, अग्निःसन्तापवह्निः । उत्थितः=प्रज्वलितः, इव, प्रभूत् ।
समा०-दिलीपस्य अनन्तरं दिलीपानन्तरम्, तत् दिलीपानन्तरम् । प्रतिष्ठा अस्य संजाता इति प्रतिष्ठितः, तं प्रतिष्ठितम् । प्रकृष्टो धूमः प्रधूमः, प्रधूमः प्रस्य संजातः प्रधूमितः।
अभि.- दिलीपराज्यकाले यः नृपाणां हृदि धूमयुक्तः सन्तापाग्निः प्रासीत् स रघु राज्ये प्रतिष्ठितं श्रुत्वा प्रज्वलित इव बभूव । राजानोऽधिकं सन्तेपुः ।
हिन्दी-राजा दिलीप के राज्यकाल में जिन राजाओं के हृदय में धूमिल संतापाग्नि स्थित थी वह रघु के राजपदारूढ़ होते ही बधक उठी ।। २।।
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ ३ ॥ सञ्जीविनी--पुरुहूत ध्वज: इन्द्रध्वजः किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्त भविष्योत्तरे- ‘एवं यः कुरुते यात्रामिन्द्रकेतोयुधिष्ठिर। पजन्यः कामवर्षी स्यात्तस्य राज्ये न सशयः ॥” इति । "चतुरस्र ध्वजाकारं राजद्वारे प्रतिष्ठितम् । माहः शक्रध्वजं नाम पोरलोकसुखावहम् ॥" पुरुहूतध्वजस्येव तस्य रघोनवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः ।