________________
५८
रघुवंशमहाकाव्ये वृद्धानामिक्ष्वाकूणामिक्ष्वाकोगोंत्रापत्यानाम् । तद्राजसंशकत्वादयो लुक् । वनगमनं कुलव्रतम् । देव्या महेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः-'सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्माचारी साग्निः सोपासनो ब्रजेत् ॥' इति । हरिणीवृत्तमेतत् । तदुक्तम्- "रसयुगहयन्तॊ म्रौ स्लो गो यदा हरिणो तदा" इति ॥ ७० ॥
अन्वयः-अथ, विषयव्यावृत्तात्मा, सः, यथाविधि, यूने, सूनवे, नृपतिककुदम् , सितातपवारणम् , दरवा, तया, देव्या, सह, मुनिवनतरुच्छायाम् , शिश्रिये हि गलितवयसाम् , इक्ष्वाकूणाम् , इदम् , कुलब्रतम् 'अस्ति' ।
वाच्य०--विषयव्यावृत्तात्मना तेन मुनिवनतरुच्छाया शिश्रिये । अनेन कुलव्रतेन भूयते ।
व्याख्या-अथ = अनन्तरम् । विषयेम्यः = इन्द्रियग्राह्यपदार्थेभ्यः, व्यावृत्तः=निवृत्तः, आत्मा = चित्तम् यस्य सः विषयव्यावृत्तात्मा। सः = राजा दिलीपः । विधिम् = विधानम् अनतिक्रम्य यथाविधि, यथाशास्त्रमित्यर्थः । यूने = युवकाय। सूनवे-पुत्राय । नृपतेः राज्ञः, ककुदम् =चिह्नम् । आतपस्य =धर्मस्य, वारणम् =निवारकम् , इति आतपवारणम् सितं = धवलम् , यत् आतपवारणम् छत्रं सितातपवारणम् , तत् । दत्त्वा = वितीर्य। तया=प्रसिद्धया, देंव्या= राजमहिष्या सुदक्षिणया, सह = सार्धम् । मुनोनाम् = ऋषीणाम् , वनम् = काननम् इति मुनिवनम् , मुनिवनस्य तरवः= वृक्षाः इति मुनिवनतरवः, तेषां छाया इति मुनिवनतरु. च्छाया, तां तथोक्ताम् । शिश्रिये=सिषेवे। हि = यतः। गलितम् = नष्टम् , वयः= अवस्था येषां ते गलितवयसः, तेषाम् गलितवयसाम् = जोर्णावस्थानाम् । इक्ष्वाकृणाम् = इवाकुवंशोद्भवानां राज्ञाम् । इदम् =एतत् । कुलस्य = वंशस्य । व्रतम् - नियमः, अस्तीति शेषः।
समा-विषयेभ्यो व्यावृत्त आत्मा यस्य सः विषयव्यावृतात्मा। विधिमनक्रम्येति यथाविधि । नृणां पतिः नृपतिः, नृपतेः ककुदं नृपतिककुदम् , तत् नृपतिककुदम् । आतपस्य वारणम् आतपवारणम् , सितञ्च तत् आतपवारणञ्च सितातपवारणम्, तत् सितातपवारणम् । मुनीनां वनं मुनिवनं, मुनिवनस्य तरुः मुनिवनतरुः, मुनिवनतरोः छाया मुनिवनतरुच्छाया, तां मुनिवनतरुच्छायाम् । गलितं वयः येषां ते गलितवयसः, तेषां गलितवयसाम् । इक्ष्वाकोः गोत्रापत्यानि इक्ष्वाकवः तेषामिक्ष्वाकूणाम् । कुलस्य व्रतं कुलव्रतम् ।
अभि०-यदा राजा दिलीपो वृद्धो जातस्तदा तरुणाय स्वपुत्राय रववे राज्यं दत्वा स्व. महिष्या सुदक्षिणया सह वानपस्थाश्रमधर्मेण तपसे वनगमनमकरोत् । यत इदं कुलवतमिक्षाकूणामासीत् ।
हिन्दी-जब कि राजा दिलीप बूढ़े हुए तो अपने तरुण पुत्र रघु को राज्य देकर अपनी रानी सुदक्षिणा के साथ वानप्रस्थ धर्म के द्वारा तपस्या के लिये वन में चले गये, क्योंकि इक्ष्वाकुकुल के राजाओं का यही कुलनियम था ॥ ७० ॥ .
इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविर चितया छात्रोपयोगिनीव्याख्यया समलङ्कृते रघुवंशे महाकाव्ये रघुराज्याभि
को नाम तृतीयः सर्गः ॥३॥