________________
५६
रघुवंशमहाकाव्ये
प्रमनाः, न अत्यन्तं प्रमनाः नातिपमनाः। सदसो गृहं सदोगृहम् , तत् सदोगृहम् ।
अभिक-इन्द्रः रघोः प्रस्तावं तथैवास्तु, इति स्वीकृत्य स्वीयसारथिना मातलिना सह येन मार्गेणायात आसीत्तेनैव रवपुरी प्रति निवृत्तः । रघुरपि विजयलामेऽप्यश्वालाभान्नातिप्रहृष्टो दिलीपसभाभवनं प्रत्याजगाम ।
हिन्दी-इन्द्र ने रघु की प्रार्थना स्वीकार की और अपने सारथि मातलि के साथ जिस मार्ग से आया था उसी मार्ग से अपनी नगरी की ओर प्रस्थान किया। इधर रघु भी विजयी होने पर भी घाला प्राप्त न होने के कारण वशेष प्रसन्न न होते हुए दिलीप के सभा भवन को ओर लौटे ॥ ६७ ॥
तमभ्यनन्दप्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन्हर्षजडेन पाणिना तदीयमङ्गं कुलिशवणाङ्कितम् ॥ ६८ ॥ संजीविनी-हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो शापितः। वृत्तान्तमिति शेषः । प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पापिना कुलिशव्रणाङ्कितम् । तस्य रघोरिदं तदीयम् । अझं शरीरं परामृशंन्तं रघुमभ्यनन्दत् ॥ ६८ ॥
अन्वयः-हरेः शासनहारिणा, प्रथमम् . प्रबोधितः, प्रजेश्वरः, हर्षजडेन, पाणिना, कुलिशवणाङ्कितम् , तदीयम् , भङ्गम् परामृशन् , तम् , अभ्यनन्दत् ।
वाच्य०-प्रबोधितेन, प्रजेश्वरेप, परामृशता, सः, अभ्यनन्द्यत ।
व्याख्या-हरेः=इन्द्रस्य । शासनम् = आशाम् , हरति = नयति तच्छीलः शासनहारी, दूत इत्यर्थः, तेन शासनहारिणा । प्रथमम् - पूर्वमेव । प्रबोधितः=वृत्तान्तं विज्ञापितः। प्रकर्षण जायन्त इति प्रजाः= लोकाः, तासाम् ईश्वरः= स्वामी इति प्रजेश्वरः, राजा दिलीप इत्यर्थः । हर्षेण =जानन्देन, जडः= शिथिलः इति हर्षजडः तेन हर्षजडेन। पाणिना=करेण । कुलिशस्य = वज्रस्य । 'हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः' इत्यमरः । व्रणाः = ईमाणि, 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः। इति कुलिशव्रणाः, तैः अङ्कितम् = चिह्नितम् इति कुलिशवणाङ्कितम् तत्तथोक्तम् । तस्य - रघोः, इदम् =सम्बन्धि इति तदीयम् तत् । अङ्गम् = शरीरम् , परामृशन् = स्पृशन् । तम् =रघम् । अभ्यनन्दत् =अभिनन्दितवान् ।
समा०-शासनं हरतोति शासनहारी, तेन शाप्तनहारिणा। प्रजानामीश्वरः प्रजेश्वरः । हर्षेण जडः हर्षजडः, तेन हर्षजडेन । कुलिशस्य व्रप्पः कुलिशव्रणः कुलिशव्रणेन अङ्कितं कुलिशव्रपाङ्कितम् , तत् कुलिशव्रणालितम् ।
अभि०-रघुशक्रवृत्तान्तो दिलीपेन दूतमुखात्पूर्वमेव शातः, अतः गृहागतं रघु हर्षशिथिलेन पाणिना परामृशता तेन तुष्टिलब्धा ।
हिन्दी-रघु और इन्द्र के वृत्तान्त को राजा दिलीप इन्द्रदूत के मुख से पहले ही सुन चुके थे, अतः रघु के आने पर उसके वज्र के घाव से चिह्नित शरीर पर हर्ष से शिथिल हाथ फेरते हुए उन्होंने उसका अभिनन्दन किया ॥ ६८ ॥