________________
.
तृतीयः सर्गः अभि०--हे क्षत्रियबालक ! यत् भवता कथितं तत्सर्व सत्यं वर्तते, किन्तु शतक्रतुरिन्द्र एव नान्य इति स्वयशो रक्षितुं तव पितुरश्वमेधीयोऽश्वो हृत इति न दोषाय ।
हिन्दी-हे क्षत्रियकुमार ! जो तुमने कहा है, वह सब सत्य है, किन्तु यशस्वियों को अपने यश की रक्षा अवश्य करनी चाहिये। मैंने संसार में प्रसिद्ध सौ अश्वमेध यज्ञ करने का जो यश पाया है, उसे सौवां अश्वमेध करके तुम्हारे पिता छीनना चाहते हैं ॥ ४० ॥
हरियथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्मा मुनयः शतक्रतुं द्वितीयगामी नहि शब्द एष नः ॥ १९ ॥
सञ्जीविनी-पुरुषेषूत्तम इति सप्तमीसमासः। 'न निर्धारणे' इति षष्ठोसमासनिषेधात् । कर्मधारये तु 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' इत्युत्तमपुरुष इति स्यात् । यथा हरिविष्णुरेक एव पुरुषोत्तमः स्मृतः। यथा च त्र्यम्बकः शिवः महेश्वरः स्मृतः। नापरोऽपरः पुमान्न । तथा मां मुनयः । शतक्रतुं विदुविंदन्ति । 'विदो लटो वा' इति झेर्जुसादेशः। नोऽस्माकम् । हरिहरयोर्मम चेत्यर्थः । एष त्रितयोऽपि शब्दो द्वितीयगामी एकं विहायान्यगामी नहि । द्वितीयातत्पुरुषप्रकरणे 'गम्यादीनामुपसंख्यानम्' इति समासः ॥ ४९ ॥
अन्वयः-यथा, हरिः, एकः, पुरुषोत्तमः, स्मृतः, 'यथा च', त्र्यम्बकः, एव, महेश्वरा, स्मृतः, न, अपरः तथा मां, मुनयः, शतक्रतुं, विदुः, नः एषः, शब्दः द्वितीयगामी नहि। __ वाच्य०-हरिणकेनैव पुरुषोत्तमेन स्मृतेन 'भूयते' त्र्यम्बकेनैकेनैव महेश्वरेण 'भूयते' नापरेण तयाहं मुनिभिः शतक्रतुर्विद्ये, एतेन शब्देन द्वितीयगामिना नहि भूयते ।
व्याख्या-यथा=येन प्रकारेण । हरति पापानीति हरिः विष्णुः । एकः= केवलः एव । पुरुषेषु = नरेषु, उत्तमः=श्रेष्ठः इति पुरुषोत्तमः। स्मृतः= कथितः । 'यथा च' त्रीणि अम्बकानि-नेत्राणि यस्य स त्र्यम्बकः- शिवः 'एक एवं' इति निश्चये। महांश्चासौ ईश्वर इति महेश्वरः- महादेवः 'स्मृतः'। न= नहि । अपरः अन्यः कश्चिज्जन इत्यर्थः । तथा तेन प्रकारेण । माम् =इन्द्रं । मन्तार इति मुनयः वेदशास्त्रतत्त्वावगन्तारः । शतक्रतुं शताश्वमेधयशकर्तारं । विदुः=विदन्ति । नः = अस्माकं त्रयाणाम् , हरिहरेन्द्राणाम् । एषः= त्रितयोऽपि । शब्दः- पुरुषोत्तममहेश्वरशतक्रतुरूपः । द्वितीयम् = अपरं, गन्तुं यातुं शीलमस्यासौ द्वितीयगामो= अन्यवाचक इत्यर्थः । नहि = न, भवतीति शेषः ।
समा०-पुरुषेषु उत्तमः पुरुषोत्तमः। महाश्चासावीश्वरश्च महेश्वरः। त्रीणि अम्बकानि यस्य सः त्र्यम्बकः । शतं क्रतवो यस्य सः शतक्रतुः, तं शतक्रतुम् । द्वितीयं गन्तुं शीलमस्येति द्वितीयगामी।
अभि०-लोके पुरुषोत्तममहेश्वरशतक्रतुशब्दाः हरिहरेन्द्रानेवाभिदधति, नान्यान् पुरुषान् ।
हिन्दी-जैसे भगवान् विष्णु को ही पुरुषोत्तम कहा जाता है। और त्र्यम्बक अर्थात् शिव को ही महेश्वर कहा जाता है, ठीक उसी प्रकार मुनि लोग मुझ इन्द्र को ही शतक्रतु 'सौ अश्वमेध यज्ञ करनेवाला' कहते हैं। ये तीनों नाम दूसरे व्यक्ति के नहीं हो सकते ॥४९॥