________________
रघुवंश महाकाव्ये
व्याख्या - इति = पूर्वोक्तप्रकारेण । रघुणा = दिलीपपुत्रेण । समीरितं = कथितं । प्रगल्भं = धृष्टं । वचः = वचनं । निशम्य = श्रुत्वा । दिवौकसां = देवानाम्, अधिपतिः स्वामी, इन्द्रः ! विस्मयेन = आश्चर्येण सहितः = युक्तः इति सविस्मयः " सन्" । रथं स्यन्दनं । निवर्त्तयामास = न्यवर्त्तयत् । उत्तरं = प्रतिवचनं । प्रतिवक्तुं प्रति कथयितुं प्रचक्रमे = प्रारम्भं कृतवान् ।
समा०-- दिवम् ओकः येषां ते दिवौकसः । विस्मयेन सह वर्तते इति सविस्मयः । अभि० - रघोः पूर्वोक्तं प्रगल्भं वाक्यं श्रुत्वा देवेन्द्रः आश्चर्यचकितः सन् रथं परावर्तयन् प्रत्युत्तरं दातुं प्रचक्रमे ।
४०
हिन्दी- --इस प्रकार रघु के निर्भय वचन को सुनकर इन्द्र को बड़ा आश्चर्य हुआ, अपने रथ को लौटाकर जवाब देने लगा ॥ ४७ ॥
और
यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः । जगत्प्रकाश तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ ४८ ॥
संजीविनी - हे राजन्यकुमार ! क्षत्रियकुमार ! 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः । यद्वाक्यमात्थ ब्रवीषि 'ब्रुवः पञ्चानामादित आहो ब्रुवः' इत्यनेनाहादेशः । तत्तथा सत्यम् । किंतु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रच्यम् । ततः किमत आहभवद्गुरुस्त्वत्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम तद्यशः शतक्रतुत्वरूपं इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ॥ ४८ ॥
अन्वय -- 'हे' राजन्य कुमार, यद् आत्थ, तत्, तथा, तु, यशोधनैः परतः, यशः रक्ष्यं, भवद्गुरुः, जगत्प्रकाशम्, अशेषं, मम, तद्, इज्यया, लंघयितुम्,
उद्यतः ।
वाच्य०-यद् वाक्थं त्वयोच्यते तेन "भूयते" तु यशोधनाः परतो यशो रक्षन्ति, भवद्गुरुणा तद् यशः इज्यया लंघयितुमुद्यतेन "भूयते”
यत् =
व्याख्या— राजन्यस्य = क्षत्रियस्य, कुमारः = युवराजस्तत्संबुद्धौ "हे" राजन्यकुमार ! = पूर्वोक्तं वचः = वचनम्, श्रत्थ - कथयसि, “त्वमिति शेषः " । तद् = वचः । तथा = सत्यम् । तु = किन्तु, यशः = कीर्तिः, एव धनं - वित्तं येषां ते, तैः यशोधनैः । परतः = शत्रुतः । यशः = कीर्तिः, रक्षितुं योग्यं रक्ष्यं = रक्षणीयं पालनीयं । भवतः = तव, गुरुः = पिता इति भवद्गुरुः दिलीपः । जगति = संसारे, प्रकाशं प्रसिद्धम् । अशेषं तत् = जगत्प्रसिद्धं यशः कीर्तिम् । इज्यया = अश्वमेधयज्ञेन, उद्यतः = उद्युक्तः 5: 1
सम्पूर्णं । मम = इन्द्रस्य । लंघयितुं = लंघनं कर्तुम् ।
=
समा० - राजन्यस्य कुमारः राजन्यकुमारः तत्सम्बुद्धौ हे राजन्यकुमार ! यश एव धनं येषां ते यशोधनाः, तैः यशोधनैः । रक्षितुं योग्यं रक्ष्यम् । भवतः गुरुः भवद्गुरुः । जगति प्रकाशं जगत्प्रकाशम्, तत् जगत्प्रकाशम् । न विद्यते शेषो यस्य तत् अशेषम्, तत् ।