________________
रघुवंशमहाकाव्ये महोक्षतां वत्सतरः स्पृशसिव द्विपेन्द्रमा कलमः श्रयनिय । रघुः क्रमाद्यौवनमिझशैशवः पुपोष गाम्मीर्यमनोहरं वपुः ॥ ३२ ॥
संजीधिनी-रघः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुमावः सन् । महानुक्षा महोक्षा महर्षमः । 'अचतुरविचतुर' इत्यादिसूत्रेण निपातनादकारान्तत्वम् । तस्य मावस्तत्ता ! स्पृशनाच्छन्वत्सतरो दम्य इव । 'दम्यवस्सतरौ समौ' इत्यमरः । द्विपेन्द्रमा महागजत्वं अयन्व्रजन्कलभः करिपोत इव । गाम्भीर्यप्पाचापलेन मनोहरं दधुः पुपोष ।। ३२ ।।
अन्वयः-रघुः, ऋगात् , यौवनमिनशक्षवः 'सन्' महोक्षसांस्पृशन् धस्सतरः, इव, द्विपेन्द्रमावं, श्रयन् , कलभः इव, गम्मीर्य मनोहरं, वपुः, पुपोष ।
वाध्य०--रघुणा, यौवनभिन्नशैशवेन ‘सता' स्पृशता वत्सतरेयेव, अयता कलभेनेव वपुः पुपुवे।
व्याख्या-रघः= दिलीपसू नुः कमात्-क्रमेण । यूनोर्मावः यौवनं, यौवनेन = तारुण्येज, भिन्न-निवारित, शैशवं शिशोर्मावः माल्यं यस्य स गोवलसिन्नशैशवः 'सन्' । महांश्चासौ उन्ना चेति महोमस्तस्य भावः मडोक्षता, तां सहोक्षता = महावृषमता, स्पृशन् = गच्छन् । अतिशयेन वत्स इति वत्सतरः-दम्यः, श्व= यथा । द्विपानां - गजानामिन्द्रः-स्वामी इति द्विपेन्द्रः, द्विपेन्द्रस्य भावस्तं द्विपेन्द्रभाव = महागजस्वं । अयन् प्रनन्। कलमः = करिपोतः । इव = यथा । गम्भीरस्य भावः गाम्भीर्य, गाम्भीर्येण = गमोरवेन, मनोहरं = सुन्दरमिति गाम्मीयमनोहरं । वपुः शरीरं पुपोष = पुष्याति स्म ।
समा०-यूनः भावः यौवनं, शिशोर्भावः शैशवं, पौवनेन मिन्नं शैशवं यस्य सः यौवनमिन्नशैशवः । महाश्चासौ रक्षा च महोक्षा, महोक्षस्य भावः महोसता, ता भहोक्षताम् । द्विपानामिन्द्रः दिपेन्द्रः, दिपेन्द्रस्य भावः दिपेन्द्रभावः,तं द्विपेन्द्रभावम् । गम्मीरस्य भावः गाम्मीर्यम्, गाम्मीयप मनोहरं गाम्भीर्यमनोहरम् , तत् माम्भीर्य मनोहरम् ।
अमि० यया वत्सतरो महावृषभो भवति यथा कलमः गजत्वं प्राप्नोति एवं क्रमशः प्राप्तयौवनः स रघुरपि गम्भीर्यण सुन्दरं वपुः पुष्पाति स्म।
हिन्दी-जिस प्रकार गौ का बच्चा बड़ा होकर साड़ हो जाता है और हाथी का बच्चा बढ़कर गजराज हो जाता है उसी प्रकार जब रघु ने मी बचपन बिताकर युवावस्था में प्रवेश किया तन उसका शरीर गम्भीरता से और भी सुन्दर तथा परिपुष्ट होकर खिल उठा ॥ ३२ ॥
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद् गुरुः । नरेन्द्र कन्यास्तमवाप्य सस्पतिं तमोनुदं दक्षसुता इवावभुः ॥ ३३ ॥ संजोविनी-'गौर्नादित्ये बलीयदें ऋतुभेदषिमैदयोः। स्त्री तु स्यादिशि भारत्यां सूमौ च सुरभादपि ॥ पुंखियोः स्वर्गवाम्बुरश्मिदृग्माणलोमसु ।' इति केशवः । गावो लोमानि फेशा दीयन्ते खण्डयन्तेऽस्मिन्निति ध्युत्पत्त्या गोदानं नाम ब्राम्प्रषादीना पोडशादिषु कर्तव्यं केशान्तास्यं