SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः २७ अमि०-कुशाग्रबुद्धिः शुश्रूषादिबुद्धिगुणैः क्रमेण प्रान्वीक्षिक्यादीः सर्वा अपि विद्या अधीतवान् । हिन्दी-कुशाग्रबुद्धि रघु ने सम्पूर्ण सेवा आदि बुद्धि के गुणों से चार समुद्रों के समान ( आन्वीक्षिकी, त्रयी, वार्ता, दण्डनीति ) इन चारों विद्याओं को वैसे ही पार कर लिया अर्थात् पढ़ लिया जैसे सूर्य भगवान् अपने सरपट दौड़नेवाले घोड़ा से चारों दिशाओं को थोड़े समय में पार कर लेते हैं ॥३०॥ त्वचं स मेध्यां परिधाय रौरवीमशिक्षतात्रं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥ ३१ ॥ सञ्जीविनी-स रघुः । 'कार्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपयेष शाणक्षौमादिकानि च ।।' इति मनुस्मरणान्मध्यां शुद्धां रौरवीं रुरुसंबन्धिनीम् । 'रुरुमहाकृष्णसारः' इति यादवः । त्वचं चर्म परिधाय वसित्वा मन्त्रवत्समन्त्रकमस्त्रमाग्नेयादिकं पितुरेवोपाध्यायादशिक्षताभ्यस्तवान् । 'पाख्यातोपयोगे' इत्यपादानसंशा । पितुरेवेत्यवधारणमुपपादयतिनेति । तद्गुरुदिलीप एकोऽद्वितीयः पार्थिवः केवलं पृथ्वीश्वर एव नाभूत् किंतु क्षितौ स दिलीप एको धनुर्धरोऽप्यभूत् ॥ ३१ ॥ अन्वयः-सः मेध्यां, रौरवीं, स्वच, परिधाय मन्त्रवत् , अस्त्रं, पितुः एव, अशिक्षत, तद्गुरुः, एकपार्थिवः केवलं, न अभूत् 'किन्तु' क्षितौसः, एकधनुर्धरः, अपि, 'अभूत्। वाच्य०-तेनाशिक्ष्यत, तदगुरुणकपार्थिवेन न अभावि, किन्तु एकधनुर्धरेषाप्यमावि । व्याख्या-सः रघः। मेध्यां = पवित्रां= शुद्धा । रुरोरियं रौरवी, तां रौरवी = रुरुमृगसम्बन्धिनी, त्वचं चर्म, परिचाय = वसित्वा, परिधानं कृत्वेत्यर्थः। मंत्रोऽस्यास्तीति मंत्रवत् =समंत्रकम् , अस्त्रम् = आग्नेयादिकं । पितुः = जनकात् दिलीपात् एव, अशिक्षत=शिक्षितवान् । अस्त्रविद्या गृहीतवानित्यर्थः । तस्य = रघुः, गुरुः = पिता । एकः = अद्वितीयश्चासौ पार्थिवः = पृथिवीश्वरः इति एकपार्थिवः, एव = केवलम् एकमात्रमित्यर्थः, न = नहि अभूत् = आसीत् । 'किन्तु' क्षितौ = पृथिव्याम् एकश्चासौ धनुर्धरः इति एकधनुर्धरः= अद्वितीय चापधरोऽपि, अभूत् = बभूव । समा०–रुरोः इयं रौरवी, तां रौरवीम् । मन्त्रः अस्यास्तीति मन्त्रवत् , तत् मन्त्रवत् ( अविशेषणं द्वि० )। तस्य गुरुः तद्गुरुः। पृथिव्या ईश्वरः पार्थिवः, एकश्चासौ पार्थिवश्व एकपार्थिवः । धरतीति धरः, धनुषः धरः धनुर्धरः, एकश्चासौ धनुर्धरश्च एकधनुर्धरः।। अभि०-रघुः स्वजनकादेव सम्पूर्णा समंत्रकामाग्नेयाद्यस्त्रविद्या शिक्षितवान् । यतस्तपिता दिलीपः च केवलं सम्राडेव न पृथिव्यामद्वितीयधनुर्वेदपण्डितोऽप्यासीत् । हिन्दी-उस रघु ने शुद्ध रुरु नामक काले मृग की छाल को पहनकर अपने पिता से ही मन्त्र सहित अस्त्रविद्या को सीख लिया, क्योंकि दिलीप केवल चक्रवतों राजा हो नहीं था, किन्तु वह संसार में धनुर्विद्या का अद्वितीय पण्डित भी था ।। ३१ ।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy