________________
रघुवंशमहाकाम्ये
समा०-रथस्य अङ्ग ( चक्रं ) रथाङ्गम् , रथाङ्गस्य नाम यस्य स रथाङ्गनामा ( स्त्री च रथाङ्गनाम्नी )। रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानौ, तयोः रथाङ्गनाम्नोः । सा च सच तो, तयोः--तयोः । मावस्य बन्धनं भावबन्धनम् , परस्परमाश्रयः यस्य तत् परस्पराश्रयम् ! एकश्चासौ सुतश्च एकसुतः तेन एकसुतेन।
अमि०-चक्रवाकयोरिव सुदक्षिणादिलीपयोः यल्लोकोत्तरं प्रेम आसीत् तत् एकसुतेन रघुणा विभक्तमपि परस्परं वृद्धिमेव गतम् ।
हिन्दी-सुदक्षिणा और दिलीप में चकवा और चकवी के समान गाढ़ा प्रेम था वह प्रेम एकमात्र पुत्र रघु पर बँट जाने पर भी परस्पर के प्रेम में कमी न ला सका प्रत्युत और बढ़ता ही गया ॥२४॥
उवाच धाच्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलिम् । अभूच्च ननः प्रणिपातशिक्षया पितुर्मुदं वेन ततान सोऽर्भकः ॥ २५ ॥
सम्जीविनी-सोऽर्भकः शिशुः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । धात्र्योपमात्रा। 'धात्री जनन्यामलकीवसुमत्युपमातृषु' इति विश्वः । प्रथममुदितमुपदिष्टं वच उवाच। तदीयामङ्गुलिमवलम्ब्य ययौ च : प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूच्च इति यत्तेन पितुर्मुदं ततान ॥२५॥
अन्वयः-सः, अर्मकः, धात्र्या, प्रथमोदितं, वचः, उवाच, तदीयाम् अंगुकिम् , अवलम्ब्य, ययो, 'च, प्रणिपातशिक्षया, नम्रः, अभूत्, च, तेन पितुः, मुदं ततान।
वाच्य०-तेना केय ऊचे, यये च । नम्रण अमावि, मुत् तेने ।
व्याख्या-सः-पूर्वोक्तः, अर्भकः = शिशुः । धात्र्या = उपमात्रा, प्रथमं पूर्वम् , उदितं तत् प्रथमोदितं वचः = वाक्यम् , उवाच उक्तवान् । तस्याः=धाव्याः, श्यमिति तदीया, तो तदीयाम् , अङ्गलिंकरशाखाम् , अवलम्ब्य-गृहीत्वा, ययौ-जगाम, च । प्रणिपातस्य नमस्कारश्य, शिक्षा= उपदेशस्तया प्रणिपातशिक्षया, नम्रः = विनीतः, अभूत् - बभूव, च । “इति यत्" तेन, पितुः = जनकस्य, मुदं हर्ष, ततान = अतनोत् , विस्तारितवानित्यर्थः।
समा०-प्रथमम् उदितं प्रथमोदितम् , तत् प्रथमोदितम् । तस्या इयं तदीया, तां तदीयाम् । प्रणिपातस्य शिक्षा प्रणिपातशिक्षा, तया प्रणिपातशिक्षया।
अभि०-सः कुमारः, धात्र्या प्रथमं कथितं वचनं कथयामास तस्या अंगुलिं गृहीत्वा चचाल प्रणिपातोपदेशेन नम्रोऽभूत् , तेन दिलीपोऽतीव प्रसन्नो बभूव ।
हिन्दी-कुमार रघु धाय की सिखाई बातों को अपनी तोतली बोली में बोलने लगा, और उसकी अंगुली पकड़कर चलने लगा और शिर झुकाकर बड़ों को प्रणाम करना भी सीख गया, इन सब बातों को देखकर राजा दिलीप बड़े प्रसन्न होते थे ॥ २५ ॥