________________
तृतीयः सर्गः करने के लिये जब हाथ जोड़ती तो हाथ ढीले पड़ जाते थे एवं परिश्रम से चञ्चल आँखों में आँसू आ जाते थे, यह सब देखकर राजा बड़े आनन्दित हो जाते थे, क्योंकि राजा इन सब चिह्नों से जान गये थे कि अब पुत्रोत्पत्ति में विलम्ब नहीं है ॥ ११ ॥
कुमारभृत्याकुशलैरनुष्टिते भिषग्मिराप्तैरथ गर्ममर्मणि । पतिः प्रतीतः प्रसवोन्मुखी प्रियां ददर्श काले दिवमभ्रितामिव ॥ १२ ॥
सञ्जीविनी-अथ । कुमारभृत्या बालचिकित्सा। "संज्ञायां समजनिषद" इत्यादिना क्यम् । तस्यां कुशलैः कृतिभिः। 'कृती कुशल इत्यपि' इत्यमरः । 'भिषग्वैद्यौ चिकित्सके' इत्यमरः । गर्भस्य । भर्मणि 'भरणे पोषणे भर्म' इति हैमः । 'भूतिर्भम' इति शाश्वतः। भृशो मनिच्प्रत्ययः । 'गर्भकर्मणि' इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः। अनुष्ठिते कृते सति । काले दशमे मासि । अन्यत्र ग्रीष्मावसाने। प्रसवस्य गर्भमोचनस्योन्मुखीम् । आसन्नप्रसवामित्यर्थः ‘भ्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने' इत्यमरः। प्रियां भार्याम् । अभ्राण्यस्याः संजातान्यभ्रिता ताम् । "तदस्य संजातं तारकादिभ्य इतच्" इतीतच्प्रत्ययः। दिवमिव । पतिर्भर्ता प्रतीतो हृष्टः सन् । "ख्याते हृष्ट प्रतीतः" इत्यमरः । ददर्श दृष्टवान् ॥ १२ ॥
अन्वयः-अथ, कुमारभृत्याकुशलैः, भाप्तः, मिषग्मिः, गर्ममर्मणि अनुष्ठिते “सति" काले, प्रसवोन्मुखीं, प्रियाम् , अभ्रिता, दिवम् इव, पतिः, प्रतीतः "सन्" ददर्श।
चाच्य०-प्रसवोन्मुखी प्रिया, अभ्रिता घौरिव पत्या प्रतीतेन ददृशे ।
व्याख्या -अथ = अनन्तरम् । कुमाराणां = बालकानां, भृत्या चिकित्सा, तस्या, कुशलाः = निपुणाः, तैः, कुमारभृत्याकुशलैः । प्राप्तैः हितैषिभिः, भिषग्भिः वैद्यः =चिकित्सकैरित्यर्थः। गर्भस्य = भ्रूणस्य, मर्म = भरपं, पोषणमिति यावत्, तस्मिन् , गर्भभर्मणि, अनुष्ठिते = विहिते = कृते, “सति"। काले = दशमे मासि, अन्यत्र ग्रीष्मावसाने वर्षारम्भकाळे, इत्यर्थः। प्रसवस्य = गर्भविमोचनस्य, उन्मुखी उद्युक्ता तो प्रसवोन्मुखीम् = आसन्नप्रसवा. मित्यर्थः, प्रिया=मार्याम् , अभ्राणि मेघाः अस्याः संजातानि इति अभ्रिता, तामभ्रितासंजातमेघां, दिवम् = आकाशम् , इव= यथा, पतिः= भर्ता, प्रतीतः प्रसन्नः, “सन्" ददर्श= अवलोकयामास ।
समा०—कुमाराणां भृत्या ( चिकित्सा ) कुमारभृत्या, कुमारभृत्यायां कुशलः कुमारभृत्याकुशलाः, तैः कुमारभृत्याकुशलैः। गर्भस्य भर्म गभर्म, तस्मिन् गर्भमर्मणि। प्रसवस्य उन्मुखी प्रसवोन्मुखी, तो प्रसवोन्मुखीम् । अभ्राणि अस्याः सजातानि इति अभ्रिता, ताम् अभ्रिताम् ।
अभि०--अनन्तरं बालकचिकित्सानिपुणैः, आप्तैः वैद्यः, गर्भस्य पोषणे कृते सति राजा दिलीपः प्रसन्नः सन् , आसन्नप्रसा सुदक्षिणां वर्षारम्मका वर्षपोन्मुखी नेपच्छन्नां दिवमिव ददर्श।