________________
रघुवंशमहाकाव्य
__हिन्दी-बुद्धिमाम् राजा दिलीप, जितना रानो सुदक्षिणा को प्यार करते थे, और जितनी उन्हें प्रसन्नता थी तथा जैसा वैभवशाली उनका राज्य था तदनुरूप ठाट-बाट से ही उन्होंने पुंसवन आदि संस्कार भी किये ॥१०॥
सुरेन्द्रमात्राश्रितगर्मगौरवात् प्रयत्नमुक्तासनया गृहागतः । तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥११॥
सब्जीविनी-गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशेराश्रितस्यानुपविष्टस्य गर्भस्य गौरवाद् भारात् प्रयत्नेन मुक्तासनया आसनादुत्थितयेत्यर्थः । उपचारस्याञ्जलावञ्जलीकरप्ये खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या "चलं तरलं चैत्र पारिप्लवपरिप्लवे" इत्यमरः । तया सुदक्षिणया ननन्द । “सुरेन्द्रमात्राश्रित--" इत्यत्र मनुः-'अष्टाभिश्च सुरेन्द्राणां मात्राभिनिर्मितो नृपः' इति।
__ अन्वयः-गृहागतः नृपः, सुरेन्द्रमात्राश्रितगर्मगौरवात् प्रयत्न मुक्तासनया, उपचाराअलिखिन्वहस्तया, पारिल्लवनेत्रया, तया, ननन्द ।
वाच्य०-गृहागतेन तेन ननन्दे ।
व्याख्या-गृहमागत इति गृहागतः =भवनप्राप्तः, नृपः=राजा दिलीपः । सुरेन्द्राणां= लोकपालानां, मात्रा:-अंशास्ताभिः, आश्रितः=अनुपविष्टः गर्भः-भ्रूणः, तस्य गौरवं =भारः, तस्मात् , सुरेन्द्रमात्राश्रितगर्भगौरवात् । प्रयत्नेन = महता प्रयासेन, मुक्तं त्यक्तम् , आसनं = पीठं यया.सा, तया प्रयत्नमुक्तासनया । उपचाराय = अभिवादनरूपाय, यः अञ्जलि:=करसम्पुटस्तेन, खिन्नौ दुःखितो, हस्तौ करो यस्याः सा, तया उपचाराअलिखिन्नहस्तया । पारिप्लवेचञ्चले, नेत्रे नयने यस्याः सा, तया पारिसवनेत्रया। तया = सुदक्षिणया। ननन्द=आनन्दं प्राप्तवान्। ___ समा०-गृहम् आगतः गृहागतः । नून् पातीति नृपः सुराणाम् इन्द्राः सुरेन्द्राः, सुरेन्द्राणां मात्राः सुरेन्द्रमात्राः सुरेन्द्रमात्राभिः आश्रितः सुरेन्द्रमात्राश्रितः सुरेन्द्रमात्राश्रितश्चासौ गर्भश्च सुरेन्द्रमात्राश्रितगर्भः, गुरोर्भावः गौरवम् , सुरेन्द्रमात्राश्रितगर्भस्य गौरवं सुरेन्द्रमात्राश्रितगर्भगौरवम् , तस्मात् सुरेन्द्रमात्राश्रितगर्भगौरवात् । प्रयत्नेन मुक्तम् आसनं यया सा प्रयत्नमुक्तासना, तया प्रयत्नमुक्तासनया। उपचाराय अञ्जलिः उपचाराञ्जलिः, उपचाराअलौ खिन्नौ हस्तौ यस्याः सा उपचाराअलिखिन्नहस्ता, तया उपचाराअलिखिरनहस्तया। पारिलवे नेत्रे यस्याः सा पारिप्लवनेत्रा, तया पारिप्लव नेत्रया।
अभि०–मुदक्षिणाभवनं प्राप्तो राजा दिलीपः, गर्भभारालसशरीरां स्वागतार्थ कष्ट नोत्थितां प्रणामान्जलिकरणेऽपि खिन्नहस्तां चपलाक्षी सुदक्षिणां दृष्ट्वा, आसन्नप्रसवेयमिति ज्ञात्वा ननन्द ।
हिन्दी-राजा दिलीप जब रनिवास में आते, तब सुदक्षिणा, लोकपालों को अंश से भरे हुए गर्भ के भार से उनके स्वागत के लिये बड़ी कठिनाई से उठ पाती, और उनको प्रणाम