SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ३६ रघुवंशमहाकाव्ये हिन्दी-उपायशून्य हुए तुम लज्जा को छोड़कर लौट जाओ, तुमने गुरु की शिष्यों के योग्य मक्ति दिखला दी, जो रक्षणीय वस्तु शस्त्र से रक्षा करने के योग्य हो नहीं होती वह वस्तु नष्ट होती हुई मी शस्त्रधारी की कीर्ति को नष्ट नहीं करती है ॥ ४० ॥ इति प्रगल्भं पुरुपाधिराजो मृगाधिराजस्व वचो निशम्य । प्रत्याहतास्त्री गिरिशप्रमावादात्मन्यवज्ञां शिथिलीचकार ॥ ११ ॥ सब्जीविनी-पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचो निशम्य श्रुत्वा गिरि शस्येश्वरस्य प्रमावात्प्रत्याहतानः कुण्ठितास्त्रः मन्त्रात्मनि विषयेऽवशामपमानं शिथिलोचकार । तस्याजेत्यर्थः। अशातोऽहमिति निवेदं न प्रापेत्यर्थः । समानेषु हि क्षत्रियाणामभिमानः। न सर्वेश्वरं प्रतीति भावः ॥ ४१॥ ___ अन्वयः-पुरुषाधिराजः, इति, प्रगल्भं, मृगाधिराजस्य, वचः, निशम्य, गिरिशमभावात् , प्रत्या. हतास्त्रः, “सन्" आत्मनि, अवज्ञा, शिथिलीचकार । वाच्य०-पुरुषाधिराजेन, प्रत्याहतास्त्रेण "सता" आत्मन्यवशा शिथिलोचक्र । व्याख्या-पुरुषाधिराजः= नृपः, इति= पूर्वोक्तप्रकारकम् , प्रगल्भं-धृष्टं, मृगाधिराजस्य% मृगेन्द्रस्य सिंहस्य, वचः= वचनं, निशम्य = श्रुत्वा, गिरिशस्य = शिवस्य, प्रभावः तेजस्तस्मात् , गिरिशप्रभावात् , प्रत्याइतं = कुण्ठितम् , अस्त्रम् = आयुधं यस्य सः, प्रत्याहतास्त्र: "सन्" आत्मनि = स्वस्मिन् , अवशाम् -अवहेलनम् , शिथिलीचकार=तत्याज । समा०-अधि ( अधिकः) राजा अधिराजः, पुरुषाणाम् अधिराजः पुरुषाधिराजः। मृगायाम् अधिराजः मृगाधिराजः, तस्य मृगाधिराजस्य । गिरौ शेते इति गिरिशः, गिरिशस्य प्रभावः गिरिशप्रभावः, तस्माद् गिरिशप्रभावात् । प्रत्याहतम् अस्त्रं यस्य सः प्रत्याहतासः। अशिथिला शिथिला कृतवान् शिथिलीचकार । अमि०-सिंहवाक्यं श्रुत्वा राजा दिलीपः, मगवतः शिवस्य प्रतापात् स्वकीयात्रस्य कुण्ठितवां ज्ञात्वा तज्जनितापमानं त्यक्तवान् । हिन्दी-राजा दिलीप ने इस प्रकार से दीठ सिंह की बात सुनकर भगवान् शिवके प्रमाव से मेरे अस्त्र की गति रुकी है यह जानकर आत्मग्लानि को कम कर दिया। अपना अपमान नहीं समझा ।। ४१॥ प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वमङ्गे वितथप्रयत्नः । जडीकृतस्त्र्यम्बकवीक्षणेन वजं मुमुक्षन्निव वज्रपाणिः ॥ ४२ ॥ सब्जीविनी-स एवं पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिंस्तत्पूर्वभङ्गे इषुप्रयोगे वितथ प्रयत्नो विफलप्रयासः। अत एव वज्रं कुलिशं मुमुक्षन्मोक्तुमिच्छन् । अम्बकं लोचनम् । 'दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बवेक्षणाक्षोणि' इति हलायुधः। त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः। तस्य वोक्षणेन बडोकृतो निष्पन्दीकृतः। वज्रं पायो यस्य स वज्रपाणिरिन्द्रः। (प्रहरणार्थेभ्यः परे निष्ठासप्तम्यो मवत इति वक्तव्यम् ) इति पाणेः सप्तम्यन्तस्योत्तरनिपातः। स इव स्थितो नृप एनं सिंहं प्रत्यब्रहीछ । "बाई सवजं शक्रस्य ऋद्धस्यास्तम्मयत्प्रभुः" इति महामारते ॥ ४२ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy