________________
द्वितीयः सर्गः
३५
प्रदिष्टकाला, उपस्थिता प्राप्ता, एषा = गोरूपा, शोणितस्य = रुधिरस्य, पारणा-व्रतान्तमोननम् , सुरान् = देवान्, द्वेष्ठीति सुरदिट, तस्य, सुरदिषाराहोः, चन्द्रमसः इयं चान्द्रमसी= ऐन्दवी, चन्द्रसम्बन्धिनीत्यर्थः, सुधा=अमृतम्, हव= यथा, क्षुधितस्य = बुभुक्षितस्य, तस्य = समीपागतप्राणिवृत्तः, मे = मम सिंहस्य, तृप्त्य = उदरपूत्य, अलं- पर्याप्तम् ।
समा०-परा मा ( शोभा ) यस्य सः परमः, परमश्चासौ ईश्वरश्च परमेश्वरः, तेन परमेश्वरेण । प्रदिष्टः कालः यस्याः सा प्रदिष्टकाला । शोणितस्य पारणा-शोणितम् एव पारणा वा शोणितपारपा ।
अमि०-उपोषितस्येव बहोः कालात् क्षुधितस्य मे क्षुधानिवृत्तये शिवेन निर्दिष्टसमया इव स्वय. मत्रागता धनुरूपा पारणा, राहोश्चन्द्रसम्बन्धिपीयूषमिव तृप्त्ये पर्याप्तं भविष्यति ।
हिन्दी-शिवजी के बताये हुए भोजन के समय स्वयं प्राप्त यह गोरूप रूधिर भोजन (व्रत की समाप्ति का ) राहु के लिये चन्द्रमण्डल में स्थित अमृत की तरह भूखे मुझ सिंह की तृप्ति के लिये पर्याप्त है ॥ ३९॥
स त्वं निवर्तस्व विहाय लजां गुरोर्मवान्दर्शितशिष्यभक्तिः।
शस्त्रेण रक्ष्यं यदशक्यरक्षन तयशः शम्भृतां क्षिणोति ॥१०॥ सम्जीविनी-स एवमुपायशन्यस्त्वं लज्जा विहाय निवत्तंस्व। भवास्वं गुरोर्दर्शिता प्रकाशिता शिष्वस्य कर्तव्या मक्तियन स तथोक्तोऽस्ति । ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आहशस्त्रेषेति । यद्रक्ष्यं धनं शस्त्रेणायुधेन । 'शस्त्रमायुधलोहयोः' इत्यमरः । अशक्या रक्षा यस्य तदशक्यरसम् । रक्षितुमशक्यमित्यर्थः । तदक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षियोति न हिनस्ति । अशक्याथेवप्रतिविधानं न दोषायेति भावः ॥ ४०॥
अन्वयः-सः, वं, लज्जा, विहाय, निवर्तस्त्र, भवान्, गुरोः, दर्शितशिष्यभक्ति : "अस्ति" यद् , रक्ष्य, शस्त्रण, अशक्यरक्षं, तद् , शस्त्रभृतां, यशः, न क्षियोति ।
वाच्य०-वेन स्वया निवृत्यता, भवता, गुरोर्दर्शितशिष्यमक्तिना "भूयते" येन रक्ष्येण शस्त्रेण अशक्यरक्षेप "भूयते" तेन शस्त्रभृतां यशो नक्षीयते ।
व्याख्या-सः= एवमुपायशून्यः, बाहुस्तम्भनेत्यर्थः, स्वं, दिलीपः, लज्जा = त्रपा, विहाय = स्यक्त्वा, निवर्तस्व = परावतस्त्र, निवृत्ती मव इति यावत् , मवान् = दिलोपः, गुरोः= वशिष्ठस्य दर्शिता- प्रकाशिता, शिष्यभक्तिः = छात्रानुरागो येन स तथोक्तः, अस्तीति शेषः, यत् = किंचित् , रक्ष्यं रक्षणीयं =पालनीयं, धनादिकमित्यर्थः, शस्त्रेण - आयुधेन, अशक्यरक्षम् = अशक्यपालनम् , तद् रक्ष्यं वस्तु, शस्त्रभृतां चापधारिणां, यशः कीर्ति न= बहि, क्षियोति=हिनस्ति।
समा०-शिष्यस्य मतिः शिष्यभक्तिः, दर्शिता शिष्यमक्तिः येन सः दर्शितशिष्यभक्तिः । रक्षितुं योग्यं रक्ष्यम् । न शक्या अशक्या, अशक्या रक्षा यस्य तद् प्रशायरक्षम् । शस्त्रापि बिभ्रतीति शस्त्र. भृतः, तेषां शलभृताम् ।
अभि०-हे राजन् , करावरोधेन मम मारणेऽसमर्थत्वं लज्जां विहाय स्वाश्रमं गच्छ, यतः यत् पाठनीयं वस्तु शस्त्रेण रक्षणयोग्यं न भवति तद् रक्ष्यं वस्तु नष्टमपि शस्त्रभृतां यशः न नाशयति, अतस्तव परावर्तने न कोऽपि दोषः ।