________________
२६
रघुवंशमहाकाव्ये नृपस्तेन, नृपेण = राज्ञा = दिलीपेन, न लक्षितं =न ज्ञातम् , अभ्युत्पतनम् = आक्रमणं यस्य स तथोक्तः, सिंहः=केशरी, ताम्=गाम् , प्रसह्य = हठात् , चकर्ष = कृष्टवान् , किलेति = अलोके । तदुपरि, भाक्रमणमकरोदिति भावः।
समा०-दुःखेन प्रधृष्यते असौ ति दुष्प्रवर्षा अद्रेः शोभा अद्रिशोमा, अदिशोभायां प्रहिते ईक्षणे येन सः अद्रिशोभाप्रहिवेक्षणः, तेन अद्रिशोभाप्रहितेक्षणेन । न लक्षितम् अलक्षितम् , अलक्षितम् अभ्युत्पतनं यस्य सः अलक्षिताभ्युत्पतनः।
भमि०-व्याघ्रादयो हिंस्राः पशवः मनसापि नैनामभिमवितुं प्रमविष्यन्तीति निश्चयवति दिलीपे पर्वतरामणीयकासक्तनेत्रे अलक्षिताक्रमणः सिहः ताम् अकाक्षीत् । __हिन्दी-हिसक दुष्ट व्याघ्रादि जन्तु इसपर आक्रमण करने की बात भी नहीं सोच सकते, आक्रमण तो दूर रहा, इस कारण निश्चिन्त होकर हिमालय की शोभा देखने में आँखे लगाये हुए राजा दिलीप से जिसका झपटना नहीं देखा गया ऐसे सिंह ने, जबरदस्ती नन्दिनी को अपनी ओर खींचा ॥ २७॥
तदीयमाक्रन्दितमार्तसाधोगुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥ २८ ॥
सीविनी-गुहानिबद्धेन प्रतिबद्धन प्रतिशब्देन प्रतिध्वनिना दीर्घम् । तस्या इदं तदीयम् । आक्रन्दितमार्तघोषणम् । आतेष्वापन्नेष साधोहितकारिणो नृपस्य, नगेन्द्रसक्ता दृष्टिम् । रश्मिषु प्रग्रहेषु 'किरणप्रग्रहौ रश्मी' इत्यमरः । आदायेव गृहीत्वेव निवर्तयामास ॥२८॥
अन्वयः-गुहानिबद्धप्रतिशब्ददीर्घम् , तदीयम् , आक्रान्दतम्, आर्तसाधोः नृपस्य, नगेन्द्रसक्ता दृष्टि, रश्मिषु, आदाय, इव, निवर्तयामास ।
वाध्य०-तदीयेम, आक्रन्दितेन नगेन्द्रसक्ता दृष्टिः निवर्तयान्चक्रे ।
व्याख्या-गुहायां= गह्वरे,निबद्धः = प्रतिहतः, इति गुहानिबद्धः स चासौ प्रतिशब्दः= प्रतिध्वनिः, तेन दीर्घम् = आयतम् , नथोक्तम् , तस्याः = नन्दिन्याः इदं तदीयम् , आक्रन्दितम् , - उच्चैः रुदितम्, आतष = पीडितेषु, साधुः = हितकारी, तस्य, आर्तसाधोः नृपस्य = राशो दिलीपस्य, नगेन्द्रे = हिमालये, सक्ता=सलग्ना, इति नगेन्द्र लक्ता तां तथोक्ताम् , दृष्टि = नेत्रं, रश्मिष = प्रग्रहेषु, श्रादाय = गृहीत्वा, इव= यथा. निवतयामास =न्यवतयत् ।
समा०-गुहायां निबद्धः गुहाानबद्धः, गुहानिबद्धश्चातौ प्रतिशब्दश्च गुहा निबद्धप्रतिशब्दः, गुहानिबद्धतिशब्देन दोर्घ गुहानिबद्धप्रतिशब्ददीर्घम् । तस्याः इदं तदीयम् । आर्तेषु साधुः आर्तसाधुः, वस्य आर्तसाधोः । नन् पातीति नृपः, तस्य नृपस्य । नगेषु इन्द्रः नगेन्द्रः, नगेन्द्रे सक्ता नगेन्द्रसक्ता, तां नगेन्द्रसक्ताम् । __ अभि०-सिंहाक्रान्ताया धेनोः, गुहायां प्रतिहतेन, प्रतिध्वनिना दीर्घमाक्रन्दनं हिमालयशोमादर्शने संलग्ना दिलीपदृष्टि तथा निवर्तयामास यथा सारथिः रश्मि गृहीत्वा हयादीन् निवर्तयति ।।
हिन्दी-गुफा में टकराए हुए प्रतिशब्द से दुगुने हुए नन्दिनी के आर्तनाद ने दुःखियों के रक्षक