________________
द्वितीयः सर्गः
व्याख्या-पल्लवस्य=किसलयस्य, नवपत्रस्येत्यर्थः, रागः= वर्णः, इति पल्लवरागः स इव ताम्रा= अरुणा इति पल्लवरागताम्रा, पतङ्गस्य सूर्यस्य 'पतङ्गः पक्षिसर्ययोः' इति शाश्वतः। प्रमा= कान्तिः, मुनेः= महर्षिवशिष्ठस्य, धेनुः = नन्दिनी, चः= समुच्चये, दिशां = काष्ठानाम् , अन्तरराणि = मध्यमार्गान् इति दिगन्तराणि, सञ्चारेण = गमनेन, पूतानि = पवित्राणि, कृत्वा = विधाय, दिनस्य = दिवसस्य, अन्तः= अवसानम् , तस्मिन् दिनान्ते = सायंकाले, निलयाय = (प्रमापक्षे ) अस्तभयाय ( धेनुपक्षे ), गृहाय, गन्तुं = यातु), प्रचक्रमे = उपक्रमं चकार ।
समा०-पल्लवस्य रागः पल्लवरागः, पल्लवराग व ताम्रा पल्लवरागताम्रा। दिशाम् , अन्तराणि दिगन्तरापि तानि दिगन्तराणि । दिनस्य अन्तः दिनान्तः, तस्मिन् दिनान्ते ।
भमि०-यथा सायंकाले सूर्यप्रभा अस्तमयाय उपक्रमं करोति तथैव वशिष्ठधेनुरपि सायं वशिष्ठाश्रम गन्तुमुद्यना अभत्।
हिन्दी-पल्लववर्ण के समान लाल वर्ष वाली सूर्य की प्रभा तथा वशिष्ठ जी की धेनु ये दोनों, दिशाओं के मध्यभाग को अपने-अपने गमन से पवित्र कर के दिन के अन्त में, प्रमा अस्त होने के लिये और धेनु अपने आश्रम में पहुँचने के लिये तैयार हो गई ॥ १५ ॥
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः ।
बमौ च सा तेन सता मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥ १६ ॥ सञ्जीविनी-मध्यमलोकपालो भूपालः। देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः प्रयोजनो यस्यास्तां धेनुमन्वगनुपदं ययौ । 'अन्वगन्वतमनुगेऽनुपदं . क्लोबमव्ययम्' इत्यमरः । सता मतेन सद्भिर्मान्येन । “गतिबुद्धि" इत्यादिना वर्तमाने क्तः। "क्तस्य च वर्तमाने" इति षष्ठी। तेन राशोपपन्ना युक्ता सा धेनुः। सता मतेन विधिनानुष्ठानेनोपपन्ना युक्ता साक्षात्प्रत्यक्षा श्रद्धास्तिक्यबुद्धिरिव बभौ च ॥ १६ ॥
अन्वयः-मध्यमलोकपालः, देवतापित्रतिथिक्रिया, ताम् , अन्वक् , ययौ, सतां, मतेन, तेन, उपपन्ना, सा ( सतां मतेन ) विधिना ( उपपन्ना ) साक्षात् , श्रद्धा, इत्र, बभौ।
वाच्य०--मध्यमलोकपालेन, सा, अन्वग् , यये, उपपन्नया क्या साक्षात् , श्रद्धया, इस बभे ।
व्याख्या-मध्ये भवः मध्यमः, मध्यमश्चासौ लोक ति मध्यमलोकः, तम्पालयतीति मध्यमलोकपालः= भूलोकरक्षकः। देवताः = देवाश्च, पितरः = परलोकगताश्च, अतिथयः प्राघुण काश्च , इति देवतापित्रतिथयः, तेषां क्रिया = यशश्राद्धदानानि ता एवार्थः प्रयोजनं यस्याः सा तां तथाक्ताम् , ता = नन्दिनीम् , वनात्परावर्तमानामिति यावत् । अन्धग = अनुपदम् , यया - जगाम । मतां = सज्जनानां. मेतेन = पूजितेन, तेन =राशा दिलीपेन, उपपन्ना=युक्ता, सा= धेनुः, मतां मतेन = साधुजनावरितेन, विधिना= विधानेन, उपपन्ना=युक्ता, साक्षात् = प्रत्यक्षा, श्रद्धा=आस्तिस्य बुद्धिः, व= यथा, बमौशुशुमे।
समा०-मध्ये भवः मध्यमः मध्यमश्वासो लोकश्च मध्यमलोकः, मध्यमलोकं पालयतीति मध्यमलोकपालः। देवताश्च पितरश्च अतिथयश्च देवतापित्रतिथयः, देवतापित्रतिथीनां क्रियेव अर्थः यस्याः सा देवतापित्रतिथिक्रियार्था, तां देवतापित्रातथिक्रियाम् ।