________________
द्वितीयः सर्गः
१५
हिन्दी- -उस राजा दिलीप ने वायु से मरे छिद्रों से बजते हुए कीचक नामक बासों के द्वारा बाँसुरी का कार्य जिस गान में हो रहा है ऐसे वन की देवियों द्वारा जोर से गाये जानेवाले अपने उस यशगान को सुना ॥ १२ ॥
पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ १३ ॥
सन्जीवनी - गिरिषु निर्झराणां वारिप्रवाहाप्याम् 'वारिप्रवाहो निर्झरो झरः' इत्यमरः । तुषारैः सीकरैः 'तुषारौ हिमसीकरौ' इति शाश्वतः । पृक्तः संपृक्तोऽनोकहानी वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी । ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थ परिहृतच्छत्रम् । अत एवातपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे । आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ॥ १३ ॥
अन्वयः - गिरिनिर्झराबाम्, तुषारैः, पृक्तः, अनोकहाकम्पितपुष्पगन्धी, पवनः, अनातपत्रम्, आतपक्लान्तम्, आचारपूतं तं सिषेवे ।
वाच्य० -- पवनेन आचारपूतः सः सिषेवे !
व्याख्या – गिरिषु = पर्वतेषु, निर्झराः = वारिप्रवाहाः, तेषां गिरिनिर्झराप्पाम्, “वारि प्रवाहो निर्झरो झरः" इत्यमरः । तुषारैः = सीकरैः जलबिन्दुभिरित्यर्थः, 'तुषारौ हिमसीकरौ” इति शाश्वतः । पृक्तः=सम्पृक्तः, अनसः शकटस्याकं गति घ्नन्तीति अनोकहास्तेषामनोकहानाम् = वृक्षाणाम्, आकम्पितानि = ईषत्कम्पितानि यानि पुष्पापि = कुसुमानि तेषां गन्धः = सौरभम् अस्यास्तीति अनोकहाकम्पितपुष्पगन्धी, पुनातीति पवनः = वायुः, आतपात् = धर्मात् त्रायते इति श्रातपत्रम्, न विद्यतेआतपत्रं यस्य सः, अनातपत्रस्तमनातपत्रम् = छत्ररहितम्, ( अत एव ) आतपेन = घर्मेण, औष्ण्येनेत्यर्थः, क्लान्तम् = म्लानम्, आचारेण सदाचारेण पूतं = पवित्रं तं राजानं दिलीप, सिषेवे = सेवितवान् ।
,
==
समा० - गिरेः निर्झराः गिरिनिर्झराः तेषां गिरिनिर्झराप्याम् । अनस: ( शकटस्य ) अर्क ( गतिम् ) घ्नन्तीति अनोकहाः, आकम्पितानि च तानि पुष्पापि च प्राकम्पितपुष्पाणि, अनोकहानाम् आकम्पितपुष्पाणि अनोकहा कम्पितपुष्पाणि, अनोकहाकम्पितपुष्पाप गन्धः अस्यास्तीति अनोकहा कम्पितपुष्पगन्धी । आतपेन क्लान्तः आतपक्लान्तः तम् आतपक्लान्तम् । आवपात्त्रायत इति आतपत्रम्, न विद्यते आतपत्रं यस्य सः अनातपत्रः तम् अनातपत्रम् | आचारैः पूतः माचारपूतः तम् आचारपूतम् ।
अभि० - शीतलः, मन्दः, सुरभिश्च वायुः, छत्ररहितं धर्मपीडितं सदाचारेण शुद्धं तं दिलीपं सेवितवान्, आचारपूतश्वेन स राजा पवनस्यापि सेव्य इति मावः ।
हिन्दी - पर्वतीय झरनों के जलकणों से युक्त अत एव शीतल तथा वृक्षों के धीरे २ हिलते हुए फूलों की गन्धवाला अर्थात् शोतल, मन्द एवं सुगन्ध युक्त वायु छत्र रहित अतएव धूप से मुरझाने हुए एवं सदाचार से पवित्र राजा दिलीप की सेवा करने लगा ॥ १३ ॥