________________
रघुवचमहाकाव्ये
अपाम् = नेत्रापाम् , प्रकामं यथेष्टं विस्तारस्तस्य फलम्ति प्रकामविस्तारफलम् = अत्यन्तपिशालताफलम् , आपुःप्रापुः।
समार-धनुः बिमर्तीति धनुर्भूत् , तस्य धनुर्भूतः। विगता शंका येभ्यस्तानि विशंकानि, तैः विकः। अन्त: ( अन्तःस्थानि ) करणानि अन्तःकरप्पानि, तैः अन्तःकरणः। दयया आर्द्रः मावः यस्य तत् दयार्द्रमावम् , प्रकामं विस्तारः प्रकामविस्तारः, प्रकामविस्तारस्य फलं प्रकामविस्तारफलम् ।
अभि०-यद्यपि राजा दिलीपः धनुर्दधानः सन् बाधतः भयप्रद भासीत् . किन्तु मृग्यः स्वचिः राशो दयाभावं विशाय, भयरहिताः सत्यः निनिमेषदृष्टया दिलीपशरीरं विलोकयन्त्यः निजनेत्रविस्तृतः साफल्यं प्रापुः।
हिन्दी-धनुष को धारण करने पर भी राजा दिलीप का शरीर दयापूर्ण है ऐसा भयरहित अपने अन्तःकरणों के द्वारा जानकर एकटक देखतो हुई हरिपियों ने अपने नेत्रों के विशाल होने का फल प्राप्त किया अर्थात् अपने अन्तःकरण के विश्वास से निश्चित होकर राजा को देखा ॥ ११ ॥
स कीचकैर्मारुतपूर्णरन्धैः कूजगिरापादितवंशकृत्यम् ।
शुश्राव कुलेषु यशः स्वमुच्चरुद्गीयमानं वनदेवतामिः ॥ १२ ॥ सञ्जीविनी-स दिलीपो मारुतपूर्णरन्]ः। अत एव कूजद्भिः स्वनद्भिः। कीचंकैवेणुविशेषः । 'वेणवः कीचकास्ते स्युये स्वनन्त्यनिलोद्धताः' इत्यमरः । वंशः सुषिरवाद्यविशेषः । 'वंशादिकं तु सुषिरम्' इत्यमरः। आपादितं संपादितं वंशस्य कृत्यं कार्य यस्मिन्कर्मणि तत्तथा । कुजेषु लतागृहेषु । 'निकुञ्जकुजी वा क्लीबे लतादिपिहितादरे' इत्यमरः । वनदेवताभिरुद्गीयमानमुच्चैगोयमानं स्व यशः शुश्राव श्रुतवान् ॥ १२ ॥
अन्वयः-सः, मारुतपूर्णरन्धेः, कूद्भिः , कीचकै;, आपादितवंशकृत्यम् , कुब्जेषु, वनदेवताभिः, उच्चैः, उद्गीयमानं, स्वं, यशः, शुश्राव ।
बाच्य०-तेन स्वं यशः शुश्रुवे।
व्याख्या-सः= राजा दिलीपः, मारुतेन वायुना, पूर्णानि परितानि, रन्ध्राषि = छिद्राषि येषान्ते मारुतपूप्परन्ध्रास्तैः, तथोक्तः, ( अतएव ) कूजद्भिः शब्दं कुर्वद्भिरित्यर्थः, कीचकैः% वेषु. विशेषः 'वेषवः को चकास्ते स्युयें स्वनन्त्यनिलोद्धताः' इत्यमरः । आपादितं = सम्पादितं वंशस्य = वेषुविशेषस्य कृत्यं = कार्य यस्मिन् कर्मणि तत्तया क्रियाविशेषयमेतत् , कुब्जेषु = लतागृहेषु, वनस्य = अरण्यस्य, देवताः = अधिष्ठातृदेव्यः, ताभिः वनदेवताभिः, उच्चैः = तारस्वरेण, उद्गीयमानम् =स्तूयमानम् , स्वं =स्वकीयं, यशः=कीर्तिम् , शुश्राव = आकर्षयामास, श्रुतवानित्यर्थः ।
समा०-मारुतेन पूर्णानि रन्ध्राणि येषां ते: मारुतपूर्णरन्ध्राः, तैः मारुतपूर्णरन्ध्रः । कूजन्तीति कूजन्तः, तैः कूजद्भिः। वंशस्य कृत्यम् वंशकृत्यम् , आपादितं वंशकृत्यं यस्मिन् कमणि तचया भवति तथा आपादितवंशकृत्यम् । वनस्य देवताः वनदेवताः, ताभिः । उद् ( उच्चैः ) गायमान उद्गोयमानम् ।
अमि०-प्रवहन्मरुतापूरणेन स्वतः शब्दायमानाः वंशाः वाद्यकृत्यं कुर्वन्ति, लतागृहेष वनदेवता तारस्वरेण राशः कीर्ति गायन्ति, इदं राजा दिलीपः श्रुतवान् ।