________________
रघुवंशमहाकाव्ये विसृष्टपाश्र्वानुचरस्य तस्य पालुमाः पामभृता समस्त ।
उदीरयामासुरिषोन्मदानामालोकशब्दं वयसां विरावैः ॥ ९॥ सम्जीविनी-विसृष्टाः पाश्र्वानुचराः पार्श्ववतिनो जना येन तस्य । पाशभृता वरुणेन समस्य तुल्यस्य । 'प्रचेता वरुणः पाशो' इत्यमरः । अनेनास्य महानुभावः सुचितः । तस्य राशः पार्श्वयोद्रुमाः। उन्मदानामुत्कटमदानां वयसा खगानाम् । 'खगबाल्यादिनोर्वयः' इत्यमरः । विरावैः शरैः। आलोकस्य शब्दं वाचकमालोकयेति शब्दम्। जयशब्दमित्यथः । 'आलोको जयशब्दः स्यात्' इति विक्षः। उदीरयामासुवावदन्निवेत्युत्प्रेक्षा ॥ ९॥ ___ अन्वयः--विसृष्टपाश्र्वानु नरस्य, पाशभृता समस्य, तस्य, पार्श्वद्रुमाः, उन्मदानां, वयसा, विरावैः पालोकशब्दम् , उदीरयामासुः, इव ।
वाच्य०-तस्य पार्श्वद्रुमैः, आलोकशब्दः, उदोरयाचक्र ।
व्याख्या-पाश्र्वयोः अनुचराः पाश्र्वानुचराः, त्रिसृष्टाः = त्यक्ताः पाश्र्वानुचराः - समोपवति. सेवकाः, येन सः, तस्य विसृष्टपाश्र्वानु वरस्य, पाशं विभाति पाशभृतेन पाशभृता=वरुणेन “प्रचेता वरुणः पाशी" इत्यमरः । समस्य = तुल्यस्य, नस्य = राशः, पाच यो:= अन्तिकयोः, द्रुमाः = वृक्षा इति पाश्चंद्रुमाः । उद्गतः, मदा येषान्ते उन्मदास्तेषामुन्मदानाम् = उत्करमदानां, वयसा = पक्षियां, विरावैः:- शब्दैः. आलोकस्य शब्दम् आलोकशब्दम् = जयशब्दम् , उदोरयामासुः कथयामासुः, व इत्युत्प्रेक्षा।
समा०-अनु चरन्तीति अनुचराः, पाश्र्वयोः अनुचराः, पाश्र्वानुचराः विसशः पाश्र्वानुचराः येन सः विसृष्टपाश्र्वानुचरः, तस्य विसृष्टपाश्र्वानुवरस्य । पाश बिभौति पाशभृत् , तेन पाशभृता। पाश्वयोः द्रुमाः पार्श्वद्रुमाः। उद् ( उत्कृष्टः ) मदः येषां तानि उन्महानि, तेषाम् उन्मदानाम् । आलाकस्य शब्दः आलोकशब्दः. तम् आलोकशब्दम् । ___ अभि०-चरित्यक्तसेवकवर्गस्यापि वरुणतुल्य प्रभावस्य तस्य राशो दिलीपस्य, उभयपास्थितेषु वृक्षेषु स्थितानां पक्षिणां कूजितं बन्दि जनभाषितजयशब्द इवाभवत् ।
हिन्दी-समीपवर्ती सेवकों को छोड़ देने पर भी वरुण के समान प्रभावशालो राजा दिलीप के आस पास के वृक्षों ने मतवाले पक्षियों के शब्द द्वारा नय शब्द उच्चारण किया। अर्थात् 'महारान की जय हो' कहा, ऐसा जान पड़ता था ॥ ९॥
मरुत्प्रयुक्ताश्च मरुत्सखामं तमच्यमारादमिवर्तमानम् ।
अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥१०॥ सम्जीविनी-मरुत्प्रयुक्ता वायुना प्रेरिता बालळता आरारसमोपेऽभिवर्तमानम् । 'आरादूरसमीपयोः' इत्यमरः। मरुतो वायोः सखा मरुत्सखोऽग्निः । स इवामातोति मरुत्सखामम् । 'आतश्चोपसगें' इति कप्रत्ययः। अय॑ पूज्यं तं दिलोपं प्रसूनैः पुष्पैः। पोरकन्याः पौराश्च ताः कन्या आचाराथाजैराचारलाजैरिव सवाकिरन् । तस्योपरि निक्षिप्तवत्य इत्यर्थः। सखा हि सखायमागतमुप. भरतीति मावः ॥१०॥