________________
द्वितीयः सर्गः हिन्दी-यद्यपि त समय राजा दिलीप त्र-चामर आदि समस्त राजचिटों से शोमित नहीं थे, तथापि अपने प्रभावातिशय के कारण अनुमान से शात राजलक्ष्मी को धारण करते हुए उस गजराज को तरह दीख पड़ते थे जिसका मद बाहर भले ही प्रकट न हो पर जिसकी मन्य आकृति से मद का मीतर रहना स्पष्ट झलकता है ॥ ७॥
ताप्रतानोग्रथितैः स केशरधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्धन्यान्विनेष्यन्निव दुष्टसत्वान् ॥ ८॥ ___ सञ्जीविनी-लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुग्रथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः । "इत्थंभूतलक्षणे" इति तृतीया । स राजा। अधिज्यमारोपितमौवीकं धनुर्यस्य सोऽधिज्यधन्वा सन् । “धनुषश्च" इत्यनडादेशः । मुनिहोमधेनो रक्षापदेशाद्रक्षणव्यानात् । वन्यान्वने भवान्दुष्टसत्त्वान्दुष्टजन्तून् । 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः। विनेष्यन्छिायष्यन्निव दावं वनम् । 'वने च वनवहौ च दवो दाव इहेष्यते' इति यादवः। विचचार । वने चचारेत्यर्थः । 'देशकालाध्वगन्तव्यः कर्मसंज्ञा यकर्मणाम्' इति दावस्य कर्मस्वम् ॥ ८॥
अन्वयः-लताप्रतानोदप्रथितैः, केशैः ( उपलक्षितः ), सः, अधिज्यधन्वा ( सन् ) मुनिहोमधेनोः रक्षापदेशात् , वन्यान् , दुष्टसत्त्वान् , विनेष्यन् , इव, दावं, विचचार ।
वाच्य०-तेन मधिज्यधन्वना सता दुष्ट-सत्त्वान् विनेष्यता इव दावः विचेरे ।
म्याख्या-लतानां = वल्लीनां, प्रतानैः=कुटिलतन्तुभिः, उग्रथिताः=उन्नमय्य गुम्फिता ये केशाः, ते लताप्रतानोद्ग्रथितैः, केशैः= कचैः ( उपलक्षितः ) । 'कचः केशः शिरोरुहः', इत्यमरः । स:-राजा दिलीपः, अधिज्यम् = पारोपितमौकिं, धनुः=कोदण्डः यस्य सः, अधिज्यधन्वा ( सन् ) मुनेः= वशिष्ठस्य, होमधेनुः होमार्थ पालिता गौः होमधेनुः, तस्याः, मुनिहोमधेनोः नन्दिन्याः, रक्षायाः=पालनस्य अपदेशः व्याज: तस्मात् रक्षापदेशात् । वने मवा वन्यास्तान् वन्यान् = जांगलिकान् , दुष्टाश्च ते सत्त्वास्तान् दुष्टसत्त्वान् =हिंसकजन्तून् , विनेष्यन् = शिक्षयिष्यन् इव = यथा, दावंवनं, विचचार = विचरति स्म ।
समा०-लतानां प्रतानानि लतापतानानि, उन्नमय्य ग्रथिताः उदग्रथिताः, लतापतानैः उद्ग्रथिताः लताप्रतानोद्ग्रथिताः, तैः लताप्रतानोद्ग्रथितैः । अधि (आरोपिता ) ज्या ( मौर्वी ) यस्य तत् अधिज्यम् , अधिज्यं धनुः यस्य सः अधिज्यधन्वा । होमस्य धेनुः होमधनुः मुनेः होमधेनुः मुनिहोमधेनुः, तस्याः मुनिहोमधेनोः। रक्षायाः अपदेशः रक्षापदेशः, तस्मात् रक्षापदेशात् । वने भवाः वन्याः, तान् वन्यान् । दुष्टाश्च ते सत्त्वाश्च दुष्टसत्वाः, तान् दुष्टसत्त्वान् । विनेष्यतोति विनेष्यन् ।
अमि०-राजा दिलीपः कुटिलतन्तुगुम्फितकेशः धनुष्पाणिः सन् वने भ्रमणं कृतवान् , तत् वशिष्ठ. धेनुरक्षणव्याजेन दुष्टहिसकव्याघ्रादीनां शिक्षणार्थमिवेति माति स्म ।
हिन्दी-कताओं के टेढ़े-मेढ़े सूत के समान तृणों से बंधे हुए बालों से सुशोमित वह राजा दिलोप प्रत्याशा चढ़े धनुष को लेकर वशिष्ठ के हवन की सामग्री (घृतादि ) देनेवाली उस गौ की रक्षा के बहाने दुष्ट सिंहादि जन्तुओं का शासन करने के लिये मानों वन में विचरण कर रहा था।