________________
४८६
रघुवंशे
अन्वयः-उडुपतेः अर्चिषाम् इव योषितां स्पर्शनिर्वृतिम् अवाप्नुवन् , 'किंच' रात्रिजागरपरः दिवाशयः असौ कुमुदाकरोपमाम् आरुरोह।
व्याख्या-अवतोतिः ऊः, डयतेः डुः उ च तत् डुः च उडुः उ=रोषोक्तिपूर्वकड्यते इतिवा उडुः उटूनां = नक्षत्राणां पतिः = स्वामीति उडुपतिस्तस्य उडुपतेः = चन्द्रस्य अर्चिषांभासां कान्तीनामित्यर्थः, इव यथा = योषितां = स्त्रीणां स्पर्शस्य=आलिंगनस्य निवृतिः= सुखमिति स्पर्शनिवृतिस्तां स्पर्शनिवृतिम् अवाप्नुवन् = अनुभवन् । किंच जागरे = जागरणे परः इति जागरपरः = जागरणशीलः, रात्रिषु = निशासु जागरपरः इति रात्रिजागरपरः दिवा = दिनेषु शेते = स्वपितीति दिवाशयः असौ राजा अग्निवर्णः कौ=भूमौ मोदन्ते, इति कुमुदानि = श्वेतकमलानि, तेषाम् आकरः उत्पत्तिस्थानम् आवास इत्यर्थः। इति कुमुदाकरः= तडागस्तस्य उपमा= सादृश्यं तां कुमुदाकरोपमाम् आरुरोह = प्राप्तवान् ।
समासः-उडूनां पतिः उडुपतिस्तस्य उडुपतेः । स्पर्शस्य, स्पर्शेन वा निर्वृतिः स्पर्शनिवृतिस्तां स्पर्शनिवृतिम् । कुमुदानाम् आकरः कुमुदाकरस्तस्य उपमा, तां कुमुदाकरोपमाम् । रात्री जागरस्तत्र परः, इति रात्रिजागरपरः।
हिन्दी-चाँद की किरणों के समान, स्त्रियों के स्पर्श जन्य सुख का अनुभव करता हुआ वह राजा अग्निवर्ण रातों में जागता था और दिन में सोता था। अतः वह उस तालाब की समानता को प्राप्त हो रहा था जिसमें रात में कुमुदपुष्प खिले रहते हैं और दिन में न खिलने से सोता है ॥ ३४ ॥
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोमयन् ॥ ३५ ॥ दशनैः पीडिताधरा दष्टोष्ठाः। नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः। व्रणिताधरोरुत्वादक्षमा इत्यर्थः । तथापि वेणुना वोणया चेत्युभयेन । अधरोरुपीडाकारिणेत्यर्थः । वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यों गायिकाः। 'कर्मण्यम्' इत्यण । 'टिड्ढीणञ्-' इत्यादिना ङीप् । तं विजिह्मनयनाः कुटिलदृष्टयः सत्यः । स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन् । तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ॥ __ अन्वयः-दशनपीडिताधराः नखपदाङ्कितोरवः 'तथापि' वेणुना वीणया च उभयेन वेजिताः शिल्पकार्यः तं विजिह्मनयनाः 'सत्यः' व्यलोभयन् ।
व्याख्या-दशनैः = दन्तैः पीडितः = दष्टः अधरः ओष्ठः यासां ताः दशनपीडिताधराः, नखानांकररुहाणां पदानि =क्षतानि इति नखपदानि तैः अंकिताः =चिह्निताः ऊरवः= सक्थीनि उत्संगाः इत्यर्थः । यासां ताः नखपदांकितोरवः, वेणतीति वेणुः अजतीति व वेणुः तेन वेणुना = कीचकेन वंशेन, वेति = जायते स्वरोऽस्याः सा वीणा तया वीणया वल्लक्या च उभयेन = ओष्ठजघनकष्टदायिना द्वयेन वेजिताः=पीडिताः, दुःखिताः इत्यर्थः । शिल्पं = संगीतकादिकं कुर्वन्तीति शिल्पकार्यः = गायिकाः तम् =अग्निवर्ण विजिह्मानि=कुटिलानि