________________
एकोनविंशः सर्गः हिन्दी-जब कभी राजा अग्निवर्ण अपनी प्रियतमाओं को धोखा ( चकमा ) देकर किसी दूसरी के पास चला जाता था। तो किसलय के समान अपनी अंगुलियों पोरवों से धमकाती ( डराती ) थी। तो कभी टेढ़ी ( तिरछी ) भौहे करके देखती थी। और कभी अपनी तगड़ीयों बान्ध देती थी। इस प्रकार वह दण्ड पाता था ॥ १७ ॥
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ १८ ॥ सुरतस्य वारो वासरः तस्य रात्रिषु दूतीनां विदितं यथा तथा पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनो विरहशङ्किनः। प्रियश्चासौ जनश्च प्रियजनः। तस्य कातरं वचः प्रियानयनेन मां पाहीत्येवमादि दीनवचनं शुश्रुवे ॥
अन्वयः-सुरतवाररात्रिषु दूतिविदितं यथा तथा, पृष्ठतः निषेदुषा तेन विप्रलम्भपरिशङ्किनः प्रियजनस्य कातरं वचः शुश्रुवे ।
व्याख्या-सुष्ठ रतं यत्र तत् सुरतं । सुरतस्य =सम्भोगस्य वारः =वासरः तस्य रात्रयः= निशाः तासु सुरतवाररात्रिषु, दूयन्ते याभिः ताः दूत्यः तासां दूतीनां = संचारिकाणां विदितं= शातमिति दूतिविदितम् यथा तथा पृष्ठतः = प्रियजनस्य पश्चाद्भागे निषेदुषा = उपविष्टेन तेन = अग्निवर्णेन विप्रलब्धिरिति विप्रलम्भः, विप्रलम्भं = विप्रयोगं = विरहमित्यर्थः। परिशंकते इति विप्रलम्भपरिशंकी तस्य विप्रलम्भपरिशंकिनः प्रियश्चासौ जनः प्रियजनस्तस्य प्रियजनस्य = प्रेमिजनस्य ईषत्तरतीति तत् कातरम् = अधीरं वचः= वचनं शुश्रुवे = श्रुतम् ।। __ समासः-दूतीनां विदितं यथा तथा । सुरतस्य वारः सुरतवारः तस्य रात्रयस्तासु सुरतवाररात्रिषु । प्रियश्चासौ जनः प्रियजनः तस्य प्रियजनस्य । विप्रलम्भस्य परिशंको तस्य विप्रलम्भपरिशंकिनः ।
हिन्दी-जिस दिन की रात में (पारीवाली रात में ) जिस स्त्री से सम्भोग करना होता था, तो वह पहले दूती से सब बातें बता देता, और फिर उसी प्रेमी के पीछे छिपकर बैठा हुआ वह राजा उस प्रियजन स्त्री ( सम्भोग की पारीवाली ) के दुःख पूर्ण दीन वचन सुनता था। अर्थात् दूती से राजा के न आने की बात सुनकर वह स्त्री दूती से बुलाने मनाने को प्रार्थना करती तो उसे सुन कर राजा प्रसन्न होता था ॥ १८ ॥
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गलीक्षरणसन्नवर्तिकः ॥ १९ ॥ गृहिणीपरिग्रहाद्राशीभिः समागमाद्धेतोर्नर्तकीषु वेश्यास्वसुलाभासु दुर्लभासु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य । अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवतिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्वपुरालिखन्कयंचिद्वर्तते स्मावर्तत ॥