________________
४७२
रघुवंशे
संगी तस्य संगिनः = आसत्तिमतः सतः तस्य = अग्निवर्णस्य आवरणैः सहिताः सावरणाः= गुप्ताः प्रच्छन्नाः दृष्टाः = प्रकाशाः-प्रत्यक्षाश्च संधयः=साधनानि येषु ते सावरणदृष्टसन्धयः समागमाः = संगमाः राज्ञा सह रत्यर्थमित्यर्थः । वल्लभाभिः =दयिताभिः-प्रेयसीभिरित्यर्थः सामयतीति सामि = अर्धाः = अपूर्णाः भुक्ताः = उपभोगं नीताः विषयाः = इन्द्रियार्थाः येषु ते सामिभुक्तविषयाः चक्रिरे = कृताः । यथेच्छं कृतसम्भोगश्चेदयं परितृप्तः सन् अस्मत्समीपं पुनर्नागमिष्यतीति सामिसम्भोगेनानिवृत्ततृष्णमेव चक्रुरिति भावः।
समासः-आवरणैः सहिताः सावरणाः। सावरणाः दृष्टाश्च सन्धयः येषु ते सावरणदृष्टसन्धयः। काम्यानि च तानि वस्तूनि तेषु काम्यवस्तुषु। सामि भुक्ताः विषयाः येषु ते सामिभुक्तविषयाः।
हिन्दी-दूसरियों के पास जाकर, नई नई उपभोग की सामग्रियों को चाहने वाले उस अग्निवर्ण के उन समागमों ( सम्भोगों ) को उनकी प्रेयसी सुन्दरियाँ आधे सम्भोग वाला ही कर रखती थीं। अर्थात् सम्भोग के पूरा हुए बिना बीच में ही छोड़ देती थीं। जिस समागम के साधन ( सामग्री) छिपे तौर से या प्रत्यक्ष होते थे। अर्थात् यदि राजा सम्भोग से तृप्त हो जाएगा तो फिर हमको छोड़ देगा अतः सम्भोग को वे अपूर्ण हो रखती थीं ॥ १६ ॥
अङ्गालीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥ १७ ॥ सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वश्चयन्नन्यत्र गच्छन्नङ्गुल्यः किसलयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रूविभङ्गेन भ्रूमेदेन कुटिलं वक्रं वीक्षितं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप । अपराधिनो दण्डया इति भावः ॥
अन्वयः-सः प्रणयिनीः वञ्चयन् अंगुलीकिसलयाग्रतर्जनम्, भ्रूविभंगकुटिलं वीक्षितं च असकृत् मेखलाभिः बन्धनं च अवाप ।
व्याख्या-सः = अग्निवर्णः प्रणयः= प्रेम अस्ति यासां ताः प्रणयिन्यः ताः प्रणयिनीः= प्रियतमाः वश्चयन् = प्रतारयन् धूर्ततां कुर्वन्नित्यर्थः। अंगन्ति इति अंगुल्यः, अंगुं = पाणिपादमवयवं लान्तीति वा । अंगुल्यः =करशाखाः किसलयानि = पल्लवानि, इव अंगुलोकिसलयानि तेषाम् अग्राणि = अग्रभागाः तैः तर्जनं =भर्त्सनं तदिति अंगुलीकिसलयाग्रतर्जनं, भ्रूणां = नेत्रोपरिभागरथरोमराजीनां विभंगः= मेदस्तेन कुटिलं = वक्रमिति भ्रूविभंगकुटिलं विशेषेण ईक्षितमिति वीक्षितं= दर्शनम् च असकृत् =भूयो भूयः मखं = गति लान्तीति मेखलास्तभिः । मेखलाभिः= रशनाभिः बन्धनं = प्रसितिं च 'बन्धनं प्रसितिश्चारः' इत्यमरः । अवाप = प्राप्तवान् । कृतापराधाः जनाः दण्डनीया एव भवन्तीति भावः ।
समासः-अंगुल्यः किसलयानीव अंगुलीकिसलयानि रेषाम् अग्राणि तैः तर्जनं तत् अंगुलीकिसलयाग्रतर्जनम् । भ्रूणां विभंगः भ्रूविभंगस्तेन कुटिलमिति भ्रूविभंगकुटिलम् , तत् । न सकृत असकृत् । विशेषेण विशिष्टं वा ईक्षितमिति वोक्षितम् , तत् ।