________________
४४७
अष्टादशः सर्गः सुदर्शनाख्ये = सुदर्शननामके सुते = पुत्र शिशौ = बालके सति एव मृग्यन्ते यत्र सा मृगया, मृगयया = आखेटेन विहाँ = क्रीडितुं शीलमस्येति मृगयाविहारी सन् सिंहात् = मृगेन्द्रात् विपदं मृत्युम् अवाप = प्राप। मृगयादिव्यसनेष्वासक्तिरनर्थकारिणी भवतीति भावः । ___ समासः-सुष्ठु दर्शनं यस्य स सुदर्शनः, सुदर्शनः आख्या यस्य स तस्मिन् सुदर्शनाख्ये । दर्शस्य अत्ययस्तस्मिन् यः इन्दुस्तइत् प्रियं दर्शनं यस्य स तस्मिन् दर्शात्ययेन्दुप्रियदर्शने । मृगस्येव आयते अक्षिणी यस्य स मृगायताक्षः। मृगयायाः विहारी मृगयाविहारी। नृषु सिंह इवनृसिंहः।
हिन्दी-मृग ( हरिण ) के समान बड़ी-बड़ी आँखों वाला मनुष्यों में सिंह के समान बलशाली व श्रेष्ठ और शिकार खेलने के शौकीन राजा ध्रुवसन्धि (शिकार के समय) सिंह से मृत्यु को प्राप्त हुआ। सिंह ने उसे मार दिया। जब कि अमावस्या के बाद प्रतिपदा के चन्द्रमा जैसा सुन्दर लगने वाला, सुदर्शन का पुत्र बच्चा ही था । व्यसनों से विनाश ही होता है ॥३५॥
स्वर्गामिनस्तस्य तमैकमत्यादमात्य वर्गः कुलतन्तुमेकम् ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकारो ॥ ३६॥ स्वर्गामिनः स्वर्यातस्य तस्य ध्रुवसंधेरमात्यवर्गः। अनाथा नाथहीना अत एव दीनाः शोच्याः प्रकृतीः प्रजा अवेक्ष्य। कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनमैकमत्याद्विधिवत्साकेतनाथभयोध्याधीश्वरं चकार ॥
अन्वयः-स्वर्गामिनः तस्य अमात्यवर्गः अनाथदीनाः प्रकृतीः अवेक्ष्य, कुलतन्तुम् एकं तम् ऐकमत्यात् विधिवत् साकेतनाथ चकार ।
व्याख्या-स्वरति = अप्राप्त्या उपतापयतीति स्वः = स्वर्गवाचक ऽव्ययः । स्वः = स्वर्ग गच्छतीति स्वर्गामी तस्य स्वर्गामिनः= स्वर्ग प्राप्तस्य तस्य =ध्रुवसन्धेः अमात्यानां मंत्रिणां वर्ग:= समूहः इति अमात्यवर्गः न नाथः यासां ताः अनाथाः = नाथरहिताः अतः एव दीनाः = दुर्गताः भीता इत्यर्थः। इति अनाथदीनाः प्रकृतीः प्रजाः अवेक्ष्य = अवलोक्य कुलस्य = वंशस्य तन्तुः विस्तारकः, आलम्बनमित्यर्थः। इति कुलतन्तुस्तं कुलतन्तुम् एकं केवलमद्वितीयं तं = सुदर्शननामानम् एका=संमिलिता मतिः = बुद्धिः, विचारो येषां ते एकमतयस्तेषां भावः ऐकमत्यं तस्मात् ऐकमत्यात् विधिना तुल्यं विधिवत् = शास्त्रानुसारम्, साकेतस्य = अयोध्यानगरस्य नाथः = स्वामी, राजा तं साकेतनाथं चकार = कृतवान् । सबै मन्त्रिणः एकीभूय सुदर्शनम् अयोध्येश्वरं चक्रुरित्यर्थः।
समासः-अमात्यानां वर्गः अमात्यवर्गः। कुलस्य तन्तुरिति कुलतन्तुस्तं कुलतन्तुम् । साकेतस्य नाथस्तं साकेतनाथम् । न नाथो यासां ताः अनाथाः, अनाथाश्च ताः दीनाः इति अनाथदीनाः ताः। एका मतिर्येषां ते एकमतयस्तेषां भावः, तस्मात् ऐकमत्यात् ।