________________
४४६
रघुवंशे
ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः। तदात्मज इत्यर्थः । ध्रुवेणौत्तानपादिनोपमेयः । 'ध्रुव औत्तानपदिः स्यात्' इत्यमरः। ध्रुवसंधिरुवौँ प्रपेदे । ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिशे यस्मिन्ध्रुवसंधौ संनमताम् । अनुद्धतानामित्यर्थः । अरीणां संधिर्भुवः स्थिरोऽभूत् । ततः सार्थकनामेत्यर्थः।
अन्वयः–ततः परं तत्प्रभवः ध्रुवोपमेयः ध्रुवसन्धिः उवीं प्रपेदे । ज्यायसि सत्यसन्धे यस्मिन् संनमताम् अरीणां सन्धिः ध्रुवः अभूत् ।
व्याख्या-ततः पुष्पनामकात् राज्ञः परम् = अनन्तरं सः = पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः = तत्पुत्रः ध्रुवति = स्थिरो भवति स ध्रुवः= उत्तानपादस्य पुत्रः । तेन उपमेयः = उपमातुं योग्यः, तुल्यः ध्रुवोपमेयः । 'ध्रुव औत्तानपादिः स्यात्' इत्यमरः । ध्रुवः = स्थिरः सन्धिः सन्धानं यस्य स ध्रुवसन्धिः = एतन्नामा उवौं = पृथिवीं प्रपेदे प्राप । अतिशयेन वृद्धः प्रशस्यो वा ज्यायान् तस्मिन् ज्यायसि = प्रशस्ते श्रेष्ठे इत्यर्थः । सत्या = तथ्या सन्धा=प्रतिज्ञा यस्य स तस्मिन् सत्यसन्धे यस्मिन् =ध्रुवसन्धिनामके संनमतां = सम्यक् नम्रीभूतानाम् अरीणां = शत्रूणां सन्धानं सन्धिः = संश्लेषः ध्रुवः = स्थिरः अभूत् = अभवत् । अतः तस्य नामापि सार्थकं जातमित्यर्थः।
समासः-सः प्रभवः यस्य स तत्प्रभवः। ध्रुवेण उपमेयः ध्रुवोपमेयः। ध्रुवः सन्धिर्यस्य स ध्रुवसन्धिः । सत्या सन्धा यस्य स तस्मिन् सत्यसन्धे ।
हिन्दी-राजा पुष्य के पश्चात् ध्रुव के समान अडिग ( स्थिर ) पुष्य के पुत्र ध्रुवसन्धि नामक राजा ने, पृथिवी को प्राप्त किया। ( राजा बना ) अत्यन्त श्रेष्ठ तथा सत्य प्रतिज्ञा वाले जिस ध्रुवसन्धि के प्रति ( डर कर या प्रभाव में आकर ) विनम्र ( शरण में आये ) हुये शत्रुओं को सन्धि स्थिर पक्की होती थी ॥ ३४ ॥
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः ॥ ३५ ॥
मृगायताक्षो नृसिंहः पुरुषश्रेष्ठः स ध्रुवसंधिदर्शात्ययेन्दुप्रियदर्शने प्रतिपच्चन्द्रनिमे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन्सिहाद्विपदं मरणमवापत् । व्यसनासक्तिरनर्थावहेति भावः।
अन्वयः-मृगायताक्षः नृसिंहः सः दर्शात्ययेन्दुप्रियदर्शने सुते शिशौ सति एव, मृगयाविहारी सन् सिंहात् विपदम् अवाप ।
व्याख्या-मृगस्य हरिणस्य इव आयते=दीचे अक्षिणी = नेत्रे यस्य स मृगायताक्षः नृषु सिंहः इवेति नृसिंहः = नरश्रेष्ठः सः =ध्रुवसन्धिः दर्शस्य = अमावस्यायाः अत्ययः = अवसानम् = समाप्तिः, इति दर्शात्ययस्तस्मिन् इन्दुः = चन्द्रः इव प्रियं मधुरं दर्शनम् =अवलोकनं यस्य स . तस्मिन् दर्शात्ययेन्दुदर्श ने सुष्ठु दर्शनं यस्य स सुदर्शनः। सुदर्शनः आख्या यस्य स तस्मिन्