________________
४३४
'रघुवंशे
येषान्ते शिलीमुखास्तैः शिलीमुखै बाणैः जितः=विजितः अरीणां = शत्रूणां पक्षः = वर्गः येन स जितारिपक्षः अपि ईड्यते असौ ईड्यमानः स्तूयमानः सन् शालाप्रवेशमहंतीति शालीनः= सलज्जः। तस्य भावः शालीनता तां शालीनताम् = अधृष्टतां सलज्जतामित्यर्थः अव्रजद् = अगच्छत् ।
समासः-उदारं शीलं यस्य सः उदारशीलः । शिलापट्टवत् विशालं वक्षो यस्य स शिलापट्टविशालवक्षाः । जितः अरीणां पक्षः येन स जितारिपक्षः । शिलो मुखेषु येषां ते शिलीमुखास्तैः
शिलीमुखैः।
हिन्दी-उस राजा पारियात्र को बड़ा ही शीलवान् उदार एवं चट्टान के समान विशाल (चौड़ी ) छाती वाला शिल नामक पुत्र हुआ, जिसने कि पैने बाणों से शत्रुपक्ष को जीत लिया था, फिर भी अपनी प्रशंसा होने पर लज्जित रहता था ॥ १७ ॥
तमात्मसंपन्नम नन्दितात्मा कृत्वा युवानं युवराजमेव ।
सुखानि सोऽभुक्त सुखोपरोधि वृत्त हि राज्ञामुपरुद्ध वृत्तम् ।। १८॥ अनिन्दितात्माऽगर्हितस्वभावः स पारियात्र आत्मसंपन्नं बुद्धिसंपन्नम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च' इत्युभयत्राप्यमरः । युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त । न त्वकृत्वेत्येवकारार्थः । किमर्थ युवराजशब्दकरणमित्याशङ्कयान्यथा सुखोपभोगो दुर्लभ इत्याह-सुखोपरोधीति । हि यस्माद्राशा वृत्तं प्रजापालनादिरूपं सुखोपरोधि बहुलत्वात्सुखप्रतिबन्धकम् । अत एवोपरुद्धवृत्तम् । कारादिबद्धसदृशमित्यर्थः। उपरुद्धस्य स्वयमूढभारस्य च सुखं नास्तीति भावः।
अन्वयः-अनिन्दितात्मा सः आत्मसम्पन्नं युवानं तं युवराजं कृत्वा एव सुखानि अभुङ्क्त । हि-राशा वृत्तं सुखोषरोधि उपरुद्धवृत्तम् ।
व्याख्या--न निन्दितः इति अनिन्दितः, अनिन्दितः = अविगर्हितः आत्मा स्वभावो यस्य सः अनिन्दितात्मा, शुद्धाचरण इत्यर्थः सः=पारियात्रः आत्मना= स्वभावेन-बुद्धया वा सम्पन्नः = युक्तस्तम् आत्मसम्पन्नम् “आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवर्म च" इत्यमरः। युवानं = तरुणं तं= शिलनामकं पुत्रं युवा चासौ राजा च युवराजस्तं युवराज = युवराजशब्दभाजराजयोग्यकार्यकारिणमित्यर्थः कृत्वा = विधायैव सुखानि = आनन्दान् अभुङ्क्त = बुभुजे। पुत्रं युवराजमकृत्वा सुखोपभोगः सर्वथा दुर्लभ एवेत्याह-हि = यस्मात् कारणात् राश= भूपालानां वृत्तं प्रजापालनरूपं सुखमुपरुणद्धि तच्छीलमिति सुखोपरोधि = आनन्दप्रतिबन्धकम् , अत एव उपरुद्ध = प्रतिबद्धं च वृत्तं यस्य तत् उपरुद्धवृत्तमस्ति, इति शेषः । प्रजापालनभारसंलग्नस्य कदापि सुखं न भवतीति भावः।
समासः-अनिन्दितः आत्मा यस्य सः अनिन्दितात्मा । आत्मना संपन्नः आत्मसम्पन्नस्तम् आत्मसम्पन्नम् । युवा चासो राजा युवराजस्तं युवराजम् । सुखस्य उपरोधि सुखोपरोधि । उपरुद्धम् वृत्तं यस्य तत् उपरुद्धवृत्तम् ।