________________
२८
अष्टादशः सर्गः
४३३ अरीणां जेतरि तस्मिन्नहीनगौ परलोकयात्रां प्रयाते प्राप्ते सति । उच्चैःशिरस्त्वादुन्नतशिरस्कत्वाज्जितः पारियात्रः कुलशैलविशेषो येन तं पारियानं पारियात्राख्यं तदीयं तनयं लक्ष्मी राज्यलक्ष्मीः सिषेवे किल ।।
अन्वयः-अरीणां जेतरि तस्मिन् परलोकयात्रां प्रयाते सति उच्चैःशिरस्त्वात् जितपारियानं पारियानं तदीयं तनयं लक्ष्मीः सिषेवे किल ।
व्याख्या—इयति = विरोध गच्छतीति अरिः। अरीणां = शत्रूणां जयतीति जेता तस्मिन् जेतरि = विजयिनि तस्मिन् = अहीनगौ राजनि परश्चासौ लोकः परलोकः, परलोकस्य = स्वर्गलोकस्य यात्रा = गमनमिति परलोकयात्रा तां परलोकयात्रां प्रयाते = प्राप्ते सति उच्चैः= उन्नतं. शिरः मस्तकं यस्य सः उच्चैःशिरास्तस्य भावस्तत्त्वं तस्मात् उच्चैःशिरस्त्वात् परितः सर्वतः यात्रया=गमनेन दृश्यते स पारियात्रः। जितः पारियात्रः = एतन्नामा कुलपर्वतः येन स जित पारियात्रस्तं जितपारियावं तस्य = अहीनगोः अयं तदीयस्तं तदीयं तनयं = पुत्रं पारियात्रम् = एतन्नामानं लक्ष्मीः राज्यलक्ष्मीः सिषेवे = सेवितवती किलैतिह्ये ।
समासः-परलोकस्य यात्रा, परलोकयात्रा तां परलोकयात्राम् । उच्चैः शिरः यस्य सः उच्च:शिराः तस्य भावस्तत्त्वम् तस्मात् उच्चैःशिरस्त्वात् । जितः पारियात्रो येन स जितपारियात्रस्तं जितपारियात्रम् ।
हिन्दी-शत्रुओं के विजेता राजा अहीनगु के स्वर्ग चले जाने पर, राज्यलक्ष्मी, अहीनगु के पुत्र उस पारियात्र नामक राजा को सेवा करने लगी, जिसने कि अपने मस्तक की ऊँचाई से पारियात्र नामक कुलपर्वत को जीत लिया था ।। १६ ।।
तस्याभवत्सनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः ॥ १७ ॥ तस्य पारिपात्रस्योदारशीलो महावृत्तः। 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । शिलापट्टविशालवक्षाः शिल: शिलाख्यः सूनुरभवत् । यः सूनुः शिलीमुखैर्वाणः। 'अलिबाणौ शिलीमुखौ' इत्यमरः। जितारिपक्षोऽपीड्यमानः स्तूयमानः सन् । शालीनतामधृष्टतां लज्जामव्रजदगच्छत् । 'स्यादधृष्टे तु शालीनः' इत्यमरः । 'शालीनकौपीने अधृष्टाकार्ययोः' इति निपातः ।।
अन्वयः–तस्य उदारशीलः शिलापट्टविशालवक्षाः शिल: सूनुः अभवत् । यः, शिलीमुखैः जितारिपक्षः अपि, ईड्यमानः सन् शालीनताम् अव्रजत् ।
व्याख्या-तस्य = राज्ञः पारियात्रस्य उदारं = प्रशस्तं शीलं=वृत्तं स्वभावश्य यस्य सः उदारशील: "शीलं स्वभावे सद्वृत्ते" इत्यमरः। शिलायाः = पाषाणस्य पट्टः इति शिलापट्टः, शिलापट्टः = शिलासनम् इव विशालं = पृथुलं वक्षः = वक्षस्थलं यस्य स शिलापट्टविशालवक्षाः शिलः = शिलनामा सूनुः = पुत्रः अभवत् = जातः। यः = सूनुः शिली = शल्यं मुखे =आनने