________________
४१८
रघुवंशे
पाप को दूर करता है और ठीक पदार्थ का समर्थन करके अज्ञान को मिटाता है। अतः राजा ने निरंतर प्रजाओं को सर्वथा स्वतन्त्र कर दिया था ।। ७४ ॥
इन्दोरगतयः पञ सूर्यस्य कुमुर्देऽशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ७५ ॥ इन्दोरंशवः पझेऽगतयः। प्रवेशरहिता इत्यर्थः । सूर्यस्यांशवः कुमुदेऽगतयः। गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे प्रापुः।
अन्वयः-इन्दोः अंशवः पद्मे अगतयः, सूर्यस्य च अंशवः कुमुदे अगतयः, गुणिनः तस्य गुणाः विपक्षे अपि अन्तरं लेभिरे ।
व्याख्या-उनत्तीति इन्दुः इन्दोः चन्द्रस्य अंशवः = किरणाः पद्मे = कमले नास्ति गतिः = प्रवेशः येषां ते अगतयः प्रवेशशून्याः तस्य इत्यर्थः। सूर्यस्य =भानोश्च अंशवः कौ= पृथिव्यां मोदते इति कुमुदं तस्मिन् कुमुदे = कैरवे सितोत्पले इत्यर्थः। अगतयः न प्रविशन्तीत्यर्थः । किन्तु गुणाः = दयादाक्षिण्यशौर्यादयः सन्त्यस्यासौ गुणी तस्य गुणिनः = गुणवतः तस्य = अतिथेः गुणाः विपक्षे = शत्रौ अपि अन्तरम् = अवकाशं लेभिरे = प्रापुः ।
समासः-न गतिः येषान्ते अगतयः ।
हिन्दी-चन्द्रमा की किरणे कमल में नहीं जातीं, और सूर्य की किरणें सुफेद उत्पल में नहीं जाती, किन्तु गुणो उस राजा अतिथि के गुणों ने तो शत्रुओं में भी स्थान प्राप्त कर लिया था। अर्थात् शत्रु भी उसके गुणों का आदर करते थे ॥ ७५ ॥
परामिसंधानपरं यद्यप्यस्य विचेष्टितम् ।
जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत् ॥ ७६ ॥ अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजयरूपं यद्यपि पराभिसंधानपरं शत्रुवञ्चनप्रधानं तथापि तद्धय॑ धर्मादनपेतमेव । 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः। बभूव । 'मन्त्रप्रभावोत्साहशक्तिभिः परान्संदध्यात्' इति कौटिल्यः ॥
अन्वयः-अश्वमेधाय जिगीषोः अस्य चेष्टितं यद्यपि पराभिसंधानपरं तथापि तत् धर्म्यम् एव बभूव । __व्याख्या-अश्वो मेध्यते = हिस्यतेऽत्रासौ अश्वमेधः तस्मै अश्वमेधाय = यज्ञविशेषाय-- अश्वमेधं यज्ञं कर्तुमित्यर्थः। जेतुमिच्छति जिगीषति, जिगीषतीति जिगीषुः तस्य जिगीषोः = विजेतुमिच्छोः अस्य = राज्ञः अतिथेः विशेषेण चेष्टितं विचेष्टितं = दिग्विजयरूपं यद्यपि परेषां = शत्रूणाम् अभिसन्धानं = प्रतारणमिति पराभिसन्धानं = परं प्रधानं = मुख्यं यस्मिन् तत् पराभिसन्धानपरम् आसीत् , तथापि तत् = विचेष्टितं धर्मादनपेतं धय॑==धर्मयुक्तम् एव बभूव = अभूत् । तथा चोक्तं कौटिल्येन "मंत्रप्रभावोत्साहशक्तिभिः परान्सन्दध्यात्" इति ।