________________
२७
सप्तदशः सर्गः
स राजा स्तुत्यं स्तोत्रामेव यत्तदेव समाचरन्नतः एव स्तूयमानः सन् । जिहाय ललज्ज । तथापि ह्रीणत्वेऽपि तत्कारिणः स्तोत्रकारिणो द्वेष्टीति तत्कारिद्वेषिणस्तस्य राज्ञो यशो ववृधे । ‘गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जैव भूषणम्' इति भावः ।
४१७
अन्वयः - सः स्तुत्यम् एव समाचरन् अतः एव स्तूयमानः सन् जिहाय, तथापि तत्कारिद्वेषिणः तस्य यशः ववृधे ।
व्याख्या – सः = राजा अतिथिः स्तोतुं योग्यं स्तुत्यं = प्रशंसनीयम् एव यत्कार्यं तदेव समाचरन् = सम्यक् कुर्वन् स्तूयमानः = प्रशस्यमानः जिहाय = लज्जितवान्, तथापि = लज्जितत्वेऽपि तत् = स्तोत्रं कुर्वन्ति तच्छीलाः तत्कारिणः = प्रशंसाकारिणस्तान् द्वेष्टीति तत्कारिद्वेषी तस्य तत्कारिद्वेषिणः तस्य = अतिथेः यशः = कीर्तिः ववृधे = प्रवृद्धम् | यशोधनस्य नरस्य प्रशंसायां सत्यां जैव भूषणं भवतीत्यर्थः ।
समासः -- तत्कारिणां द्वेषीति तत्कारिद्वेषी तस्य तत्कारिद्वेषिणः ।
हिन्दी - अतिथि राजा, सदा प्रशंसनीय कार्य करते थे और जब कोई उनकी प्रशंसा करता तो वे लजा जाते थे । अर्थात् बड़े संकोच का अनुभव करते । और लज्जित होकर प्रशंसा करने वाले से नाराज होने वाले उस राजा का यश खूब बढ़ता गया ॥ ७३ ॥
दुरितं दर्शनेन धनंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः ॥ ७४ ॥
स राजा । उदितः सूर्य इव । दर्शनेन दुरितं घ्नन्निवर्तयन् । तथा च स्मर्यते— 'अग्निचि - कपिला सत्त्री राजा भिक्षुर्महोदधिः । दृष्टमात्रा: पुनन्त्येते तस्मात्पश्येत नित्यशः ॥' इति । तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन च तमोऽज्ञानं ध्वान्तं च नुदव्शश्वत्मजाः स्वतन्त्रयांच स्वाधीनाश्चकार ॥
अन्वयः—सः उदितः सूर्य इव दर्शनेन दुरितं निघ्नन्, तत्त्वार्थेन तमः नुदन् शश्वत् प्रजाः स्वतन्त्रयाञ्चक्रे ।
व्याख्या—सः राजा अतिथिः उदितः = उदयं गतः वृद्धिं प्राप्तश्च सुवति = लोकान् कर्मणि प्रेरयतीति सूर्यः =भास्करः इव = यथा दर्शनेन = अवलोकनेन । दुष्टमितं गमनमनेनेति, दुरितं = पापं घ्नन् = नाशयन्, तत्वस्य = वस्तुनः अर्थः = समर्थनं प्रकाशनं तेन तत्त्वार्थेन तमः = अज्ञानम्, अन्धकारं च नुदन् = प्रेरयन्, निवारयन् शश्वत् = निरन्तरं प्रजाः जनान् स्वतन्त्रयांचक्रे = स्वतन्त्रयामास, स्वाधीनाः कृतवान् ।
समासः- तत्त्वस्य अर्थः तत्त्वार्थस्तेन तत्त्वार्थेन ।
1
हिन्दी — निकलता हुआ सूर्य दर्शन से ( देखने से ) पाप को दूर करता है । और वस्तु के तत्त्व स्वरूप ) को प्रकाश कर अन्धकार को भगाता है । जैसे, वैसे ही राजा भी देखने से