________________
४०६
रघुवंशे
प्रकृतयो लोभं लुब्धा यान्ति विरागताम् । विरक्ता यान्त्यमित्रं वा भर्तारं नन्ति वा स्वयम् ॥' तस्मात्प्रकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः ॥
अन्वयः-प्रकृतिवैराग्यं “दैवादुत्पन्नम्" सद्यः कामं शमयितुं शक्तः सः, यस्य प्रतीकारः कार्यः तत् न एव उदपादयत् ।
व्याख्या-विरागस्य भावः वैराग्यं, प्रकृतिपु= प्रजासु वैराग्यं = विरतिः = विरोधस्तत् प्रकृतिवैराग्यं दैवात् यदि उत्पन्नं जातमिति शेषः। सद्यः =सपदि कामं = यथेष्टम् सम्यग् शमयितुं = निवारयितुं शक्तः = समर्थः सः =राजा अतिथिः यस्य = प्रजाविरागस्य प्रतीकारः = शोधनं कार्यः = कर्तव्यः अनर्थहेतुत्वाद् दूरीकरणीय इत्यर्थः । तत् = प्रकृतिषु वैराग्यं नैव उदपादयत् = उत्पादयति स्म । उत्पन्नस्य वैराग्यस्य प्रतीकारापेक्षयानुत्पादनमेव सम्यगिति भावः ।
समासः-प्रकृतिषु प्रकृतीनां वा वैराग्यमिति प्रकृतिवैराग्यम् , तत्।।
हिन्दी-यदि दैववश प्रजा में असन्तोष हो तो, उसे तुरन्त दूर करने ( शान्त करने ) के लिये वह समर्थ था, किन्तु राजा अतिथि ने प्रजा में कोई ऐसा असन्तोष उत्पन्न ही नहीं होने दिया, जिसका कि प्रतीकार करना पड़े ॥ ५५ ॥
शक्येष्वेवामवद्यात्रा तस्य शक्तिमतः सतः ।
समीरणसहायोऽपि नाम्भ प्रार्थी दवानलः ॥ ५६ ॥ शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्तिविषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्रा अभवत् । न तु समधिकेष्वित्यर्थः। तथाहि । समीरणसहायोपि दवानलोऽम्भःप्रार्थी जलान्वेषी न । दग्धुमिति शेषः । किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः । अत्र कौटिल्यः'समज्यायोभ्यां संदधीत हीनेन विगृह्णीयात्' इति ॥
अन्वयः-शक्तिमतः सतः तस्य शक्येषु एव यात्रा अभवत्, समीरणसहायः अपि दवानलः अम्भःप्रार्थी न “दग्धुमिति" शेषः ।
व्याख्या--शक्तिरस्यास्तीति शक्तिमान् तस्य शक्तिमतः =सामर्थ्यसम्पन्नस्यापि सतः तस्य = राज्ञः अतिथेः शक्येषु = सामर्थ्यविषयेषु-स्वस्मात् न्यूनबलेषु एव यात्रा = विजययात्रा, अभवत् = अभूत्, न तु प्रबलेषु इत्यर्थः। तथाहि सम्यक् ईते = गच्छति, ईरयति = प्रेरयतीति वा समीरणः = पवनःसहायः = सहायको यस्य स समीरणसहायः अपि दवरय = वनस्य अनल:= अग्निः, इति दवानल: अम्भः = जलं प्रार्थयते तच्छील: अम्भःप्रार्थी = जलान्वेषी न= नहि दग्धुमिति शेषः।
समासः-समीरणः सहायो यस्य स समीरणसहायः। दवस्य अनलः दवानलः । अम्भसः प्रार्थी अम्भःप्रार्थी।
हिन्दी-राजा अतिथि शक्तिशाली होकर भी शक्य सम्भव अपने से कमजोर पर चढ़ाई