________________
सप्तदशः सर्गः
अतिथेः सम्यगारभ्यन्त इति समारम्भाः = कर्माणि गूढम् = अप्रकाशं यथा स्यात्तथा विपेचिरे = फलितवन्तः । तस्य प्रारम्भाः फलानुमेया एव भवन्तीति भावः ।
समासः - भव्यं मुख्यं येषां ते भव्यमुख्याः । निर्गता: अत्ययेभ्य इति निरत्ययाः । समानो धर्मों येषां ते सधर्माणः । गर्भशालिनां सधर्माणः ये ते गर्भशालिसधर्माणः ।
४०५
हिन्दी- - राजा अतिथि के सभी काम कल्याणकारी होते थे, और राजा सभी कामों को पहले विचार लेते थे, इसी लिये वे काम विघ्नबाधा रहित होते थे । जिस प्रकार धान का दाना " बाल के" भीतर ही भीतर पक जाता है उसी प्रकार राजा के काम भी चुपचाप आरम्भ होकर पूरा होने के बाद ही प्रकट होते थे ॥ ५३ ॥
अपथेन प्रववृते न जातूप चितोऽपि सः ।
वृद्वौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ ५४ ॥
सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन् । जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः। मर्यादां न जहावित्यर्थः । तथाहि । लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसरणम् । न त्वन्यथेत्यर्थः ।
अन्वयः -- सः उपचितः अपि सन् जातु अपथेन न प्रववृते, हि लवणाम्भसः वृद्धौ नदीमुखेन एत्र प्रस्थानम् ।
व्याख्या - सः = राजा, अतिथिः उपचीयते स्म इति उपचितः = वृद्धिम्प्राप्तः अपि सन् जातु = कदाचिदपि न पन्थाः अपथं तेन अपथेन = कुमार्गेण न प्रववृते = नहि प्रवृत्तः । मर्यादां न लंघितवानित्यर्थः । तथाहि — लवणम् अम्भो यस्य स तस्य लवणाम्भसः = लवणसमुद्रस्य |वृद्धौ = पूरोत्पीडे सत्यां नद्याः सरितः मुखं = प्रवेशमार्गस्तेन नदीमुखेनेव प्रस्थानं निःसारणम् = बहिरागमनं न त्वन्यमार्गेणेत्यर्थः ।
=
समासः - नद्याः मुखं नदीमुखं तेन नदीमुखेन । लवणम् अम्भः यस्य स तस्य लवणाम्भसः । न पन्थाः अपथं तेन अपथेन ।
हिन्दी- वह राजा अतिथि, समृद्धिशाली होकर भी कभी भी कुमार्ग ( बुरे रास्ते ) से नहीं चले। ठीक भी है क्योंकि ज्वार के समय जब सागर बढ़ता है तो नदियों के मार्ग से ही बढ़ता है । अर्थात् किसी दूसरे मार्ग से नहीं बढ़ता है ॥ ५४ ॥
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥ ५५ ॥
प्रकृतिवैराग्यं प्रजाविरागम् । दैवादुत्पन्नमिति शेषः । सद्यः कामं सम्यक्शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः कर्तव्यः तद्वैराग्यं नोदपादयत् । उत्पन्नप्रतीकारादनुत्पादनं वरमिति भावः ।
। अनर्थहेतुत्वादित्यर्थः ।
अत्र कौटिल्य : - ' क्षीणाः