________________
सप्तदशः सर्गः
४०३
सेव्यमानः = प्रत्यहमावर्त्यमानः अपि जातु = कदाचित् अपि न सूच्यते = नहि प्रकाश्यते । यतो हि सः=मन्त्रः गुप्तं = संवृतं सुरक्षितमावृतमित्यर्थः द्वारम् = इंगिताकारादिमार्ग : यस्य स गुप्तद्वार: आसीदिति शेषः ।
समासः - दिने दिने प्रतिदिनम् । गुप्तं द्वारं यस्य स गुप्तद्वारः ।
2
हिन्दी - उस राजा अतिथि का रोज-रोज अपने मंत्रियों के साथ गुप्तविचार ( मंत्रणा ) होता था । किन्तु वह विचार प्रतिदिन व्यवहार में आते हुए भी कभी भी प्रगट नहीं होता था। क्योंकि उसके चेष्टा आकारादि प्रकट होने के मार्ग ( रास्ते ) गुप्त रहते थे ॥ ५० ॥
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोपसर्पेर्जजगार यथाकालं स्वपन्नपि ॥ ५१ ॥
यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुषु स्वेषु स्वकीयेषु च । मन्त्र्यादितीर्थेष्विति शेषः । क्षिप्तैः प्रहितैरविज्ञाताः परस्परे येषां तैः । अन्योन्याविज्ञातैरित्यर्थः । अपसर्पैश्चरैः । ‘अपसर्पश्चरः स्पश' इत्यमरः । जजागार बुद्धवान् । चारमुखेन सर्वमज्ञासीदित्यर्थः । अत्र कामन्दकः——चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पाषण्ड्यादीनविज्ञातानन्योन्यमितरैरपि ॥' इति ॥
अन्वयः—यथाकालं स्वपन् अपि सः परेषु स्वेषु च क्षिप्तैः अविज्ञातपरस्परैः अपसपैः जजागार ।
व्याख्या— कालमनतिक्रम्य यथाकालं = समयस्यानतिक्रमणेन स्वपन् = शयानः अपि सः = अतिथिः परेषु = शत्रुषु स्वेषु = आत्मीयेषु च क्षिप्तः = प्रहितैः अविज्ञाताः = न ज्ञाताः परस्परे = अन्योन्यं येषां ते तैः अविज्ञातपरस्परः, अन्योन्यं न जानद्भिरित्यर्थः । अपसर्पन्तीति अपसर्पाः तैः अपसर्पैः = चरैः “यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः" इत्यमरः । जजागार = जागर्तिस्म, प्रबुद्धवानित्यर्थः ।
समासः - कालमनतिक्रम्य यथाकालम् । न विज्ञाताः अविज्ञाताः परस्परे येषां ते तः अविज्ञातपरस्परैः ।
हिन्दी-र - राजा अतिथि ने अपने कर्मचारियों तथा शत्रुओं में ऐसे गुप्तचर लगा रखे थे, जो कि आपस में एक दूसरे को भी नहीं जान पाते । ऐसे गुप्तचरों के द्वारा वह समयानुसार सोते हुए भी जागता था । अर्थात् गुप्तचरों के जरिये वह सबके समाचार जान लेते थे ॥ ५१ ॥
दुर्गाणि दुर्ब्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
हि सिंह गजास्कन्दी भयाद्विरिगुहाशयः ॥ ५२ ॥
द्विषां रोद्धू रोधकस्यापि । न तु स्वयं रोध्यस्येत्यर्थः । तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि महीदुर्गादीन्यासन् । न च निर्भीकस्य किं दुर्गेरिति वाच्यमित्यर्थान्तरन्यासमुखेनाह—-नहीति । गजानास्कन्दति हिनस्तीति गजास्कन्दी सिंहो भयाद्धेतोः । गिरिगुहासु शेत इति गिरिगुहाशयो