________________
४०२
रघुवंशे रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ।
तसिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ ४९ ॥ ___ रात्रौ च दिवा च रात्रिदिवम् । 'अचतुर-' इत्यादिनाधिकरणार्थे द्वन्द्वेऽच्प्रत्ययान्तो निपातः अव्ययान्तत्वादन्ययत्वम्। अत्र षष्ठयर्थलक्षणया रात्रिंदिवमिति । अहोरात्रयोरित्यर्थः। तयोविभागा अंशाः प्रहरादयः । तेषु महीक्षितां राज्ञां यदादिष्टमिदमस्मिन्काले कर्तव्यमिति मन्वादिभिरुपदिष्टं तत्स राजा विकल्पपराङ्मुखः संशयरहितः सन् । नियोगेन निश्चयेन सिषेवे। अनुष्ठितवानित्यर्थः। अत्र कौटिल्यः–'कार्याणां नियोगविकल्पसमुच्चया भवन्ति । अनेनैवोपायेन नान्येनेति नियोगः । अनेन वाऽन्येन वेति विकल्पः । अनेन चेति समुच्चयः' इति ।।
अन्वयः-रात्रिंदिवविभागेषु महीक्षितां यत् आदिष्टम् तत् सः विकल्पपराङ्मुखः सन् नियोगेन सिषेवे।
व्याख्या- रात्रौ च दिवा च रात्रिंदिवं, रात्रिंदिवम् = अहोरात्रयोः विभागाः = अंशाःयामादयः तेषु रात्रिंदिवविभागेषु महीं = पृथिवी क्षियन्ति, मह्यां वा क्षियन्तीति महीक्षितस्तेषां महीक्षिताम् = राज्ञां यत् =कर्तव्यम् आदिष्टम् = अस्मिन्काले इदं कर्तव्यमिदं वा न कर्तव्यमितिनीतिशास्त्रकारैरुपदिष्टं तत् = सर्व सः =राजा अतिथिः विकल्पेन = संशयेन पराङ्मुखः =रहितः इति विकल्पपराङ्मुखः सन् नियुज्यते इति नियोगस्तेन नियोगेन = निश्चयेन सिषेवे - सेवितवान् = अनुष्ठितवानित्यर्थः ।
समासः-रात्रौ च दिवा च रात्रिंदिवम् , तस्यः विभागस्तेषु रात्रिंदिवविभागेषु । विकल्पेन, विकल्पे वा पराङ्मुखः विकल्पपराङ्मुखः।
- हिन्दी-दिन में तथा रात में किस समय कौनसा कार्य करना इस प्रकार मन्वादि शास्त्रकारों ने राजाओं के जो कर्तव्य बताए हैं, राजा अतिथि ने निःसन्देह होकर दृढ़ता से उन आदेशों का पालन किया ॥ ४९ ॥
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिमिः ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥ ५० ॥ तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव । स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते। तत्र हेतुर्गुप्तद्वार इति संवृतेङ्गिताकारादिज्ञानमार्ग इत्यर्थः ॥
अन्वयः-तस्य प्रतिदिनं मंत्रिभिः सह मन्त्रः बभूव सः सेव्यमानः अपि जातु न सूच्यते “यतो हि" सः गुप्तद्वारः।
व्याख्याः -तस्य राज्ञः अतिथेः दिने दिने इति प्रतिदिनं = प्रत्यहं मन्विभिः = सचिवैः सह = साकं मन्यते इति मन्त्रः= गुप्तविचारः बभूव = जातः । सः =मन्त्रः सेव्यते इति