________________
सप्तदशः सर्गः
३९७
किए गए ) और फल देने में तत्पर प्रार्थना के अभिलषित पदार्थ ( मनोरथ ) से सेवकों को संयुक्त कर देता था । अर्थात् जैसे वृक्ष को फला हुआ देखकर लोग अनुमान कर लेते हैं कि इससे इतने फल मिलेंगें। वैसे ही राजा अतिथि की प्रसन्नता को देखकर उनके सेवक जान लेते थे कि हमको इतना फल मिलेगा । यहाँ वृक्ष समाधि व्यंग्य है ॥ ४० ॥
प्रज स्तद्गुरुणा नद्यो नभसेव विवर्धिताः ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥ ४१ ॥
प्रजास्तस्यातिथेर्गुरुणा पित्रा कुशेन । नभसा श्रावणमासेन नद्य इव विवर्धिताः । तस्मिन्नतिथौ तु नभस्ये भाद्रपदे मासे ता इव नद्य इव भूयसीं वृद्धिमभ्युदयमाययुः । प्रजापोषणेन पितरमतिशयितवानित्यर्थः ॥
अन्वयः - प्रजाः तद्गुरुणा नभसा नद्यः इव विवर्धिताः, तस्मिन् तु नभस्ये ता: इत्र भूयसीं वृद्धिम् आययुः ।
व्याख्या - प्रकर्षेण जायन्ते इति प्रजाः = जनाः तस्य = अतिथेः गुरुः = पिता = कुश: इति तद्गुरुः तेन तद्गुरुणा विरहिणो नभ्यति, नभ्नाति, नभते, इति वा नभाः = श्रावणः तेन नभसा = श्रावणमासेन नद्यः सरितः इव = यथा विवर्धिताः पूरिताः तस्मिन् = अतिथौ राजनि तु नह्यते मेघैः, न बभस्तीति वा नभाः = अभ्रम् तत्र साधुः नभस्यः = भाद्रपदः तस्मिन् नभस्ये = भाद्रपदमासे "नभो व्योनि नभा मेघे श्रावणे च" इति विश्वः । " स्युर्नभस्यः प्रौष्ठपद - भाद्रभाद्रपदाः” इत्यमरः । ताः = नद्यः इव भूयसीम् = अत्यधिकां वृद्धिम् = उन्नतिम् = अभ्युदयम् आययुः = सम्प्राप्ताः । प्रजापालनरक्षणं तु अतिथिः स्वपितुरपेक्षयाधिक्येन कृतवानित्यर्थः ।
समासः - तस्य गुरुः तद्गुरुस्तेन तद्गुरुणा ।
हिन्दी- - राजा कुश ने प्रजा को उसी प्रकार बढ़ाया था, जैसे श्रावणमास से नदी भर पूर बढ़ जाती हैं । और राजा अतिथि के समय तो प्रजा भाद्रपदमास की नदी के समान और अधिक अभ्युदय को प्राप्त हो गई । अर्थात् प्रजा का कल्याण करने में, अतिथि अपने पिता से भी बढ़ गया था ॥ ४१ ॥
=
यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् । सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् ॥ ४२ ॥
सोऽतिथिर्यद्वाक्यं दानत्राणादिविषयमुवाच तन्न मिथ्यानृतं नाभूत् । यद्वस्तु ददौ तन्न जहार न पुनराददे । किंतु शत्रूनुद्धृत्योत्खाय प्रतिरोपयन्पुनः स्थापयन्भननतो भग्ननियमोऽभूत् ॥
अन्वयः -- सः यत् उवाच तत् न मिथ्या, यत् ददौ तत् न जहार, “किन्तु " शत्रून् उद्धृत्य प्रतिरोपयन् भग्नव्रतः अभूत् ।
व्याख्या—सः =राजा अतिथिः यत् = वचनं भवते इदं दास्यामि, भवन्तं रक्षयिष्यामीत्यादिवाक्यमित्यर्थः । उवाच = उक्तवान्, तत् = वचनं मिथ्या = असत्यं न = नहि जातमिति ।
"