________________
३४४
रघुवंशे
केसरः यस्य तत् भूयिष्ठसंदष्टशिखम् अत एव कर्णात् =श्रोत्रात् च्युतं =पतितमपि शृणाति = झटिति म्लायतीति शिरीषः, शिरीषस्य = कपीतनस्य पुष्पं = कुसुममिति शिरीषपुष्पम् “शिरोषस्तु कपीतनः, भण्डिलोऽपि" इत्यमरः । सहसा = झटिति न पपात = न अपतत् ।
समासः-नखानां क्षतमिति नखक्षतम् , स्वेदैः अनुविद्धम् आई नखक्षतम् अंकः यस्य तस्मिन् स्वैदानुविद्धानखक्षतांके। भूयिष्ठं संदष्टा शिखा यस्य तत् भूयिष्ठसंदष्टशिखम् । शिरीषस्य पुष्पमिति शिरीषपुष्पम् । ___ हिन्दी-पसीने की बूंदों से भरे ( व्याप्त ) ताजे नखक्षतों से युक्त सुन्दरियों के कपोल ( गाल ) पर जिसके केसर खूब चिपक गये हैं, ऐसा शिरीष का फूल कान पर से गिर जाने पर भी तुरन्त जमीन में नहीं गिरता था ॥ ४८ ॥
यन्त्रप्रवाहैः शिशिरैः परीतारसेन धौतान्मलयोद्भवस्य ।
शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः ॥ ४९ ॥ ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिर्यन्त्रप्रवाहैर्यन्त्रसंचारितसलिलपूरैः परीतान्व्याप्तान्मलयोद्भवस्य रसेन चन्दनोदकेन धौतान्क्षालिताञ्छिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वाऽऽतपं निन्युरातपपरिहारं चक्रुः ॥
अन्वयः-ऋद्धिमन्तः धारागृहेषु शिशिरैः यंत्रप्रवाहैः परीतान् मलयोद्भवस्य रसेन धौतान् शिलाविशेषान् अधिशय्य आतपं निन्युः।
व्याख्या-ऋद्धिः =समृद्धिरस्ति येषां ते ऋद्धिमन्तः = धनवन्तः धारायाः = यंत्रधारायाः गृहाणि = भवनानि तेषु धारागृहेषु शिशिरैः =शीतलैः यंत्रः प्रवहन्ति =संचरन्तीति यंत्रप्रवाहास्तैः यंत्रप्रवाहैः, यंत्रण संचारितैः जलपूरैः परीतान् = व्याप्तान् मलते = धरति चन्दनादिकमिति मलयः = चन्दनाद्रिस्तस्मात् उद्भवतीति मलयोद्भवरसस्य मलयोद्भवस्य रसेन = चन्दनोदकेन धौतान् =क्षालितान् शिलासु विशेषास्तान् शिलाविशेषान् = मणिमयपीठानि अधिशय्य = शयित्वा आतपं = धर्म निन्युः= आतपनिवारणं चक्रुरित्यर्थः।।
समासः-धाराणां गृहाणि तेषु धारागृहेषु । शिलानां विशेषास्तान् शिलाविशेषान् । यंत्राणां प्रवाहास्तैः यंत्रप्रवाहैः । मलयात् उद्भवस्तस्य मलयोद्भवस्य ।
हिन्दी-समृद्धि वाले ( धनी ) लोग, फौवारों से सुसज्जित घरों में, उन संगमरमर की विशिष्ट शिलाओं ( चौकी ) पर सोकर गरमी को बिताते थे, जो कि ठण्डे ठण्डे फौवारों से घिरी हुई थी, और चन्दन के जल से धुली हुई थीं ॥ ४९ ॥
स्नाना मुत्तेष्वनुधूपवासं विन्यरतसायंतनमहिलकेषु ।
कामो वसः तात्ययमन्दवीयः वेशेषु लेभे बलमङ्गनानाम् ॥ ५० ॥ वसन्तरयात्मसहकारिणोऽययेनातिक्रमेण मन्दवीर्योऽतिदुईलः कामः स्नानाश्चि ते मुक्ताश्च । धूपर चारणार्थमित्यर्थः । तेषु । अन्धूपवासं धूपवासानन्तरं विन्यरताः सायंतनमल्लिका येषु तेषु । अङ्गनानां केशेषु बलं लेभे । तैरुद्दीपित इत्यर्थः ॥