________________
३४२
रघुवंशे
व्याख्या-अतिक्रान्तं वेलां मर्यादा वा, इति अतिमात्रम् = अत्यधिक प्रवृद्धः=वृद्धिं गतः तापः=संतापो यस्य स प्रवृद्धतापः दिवसः वासरः “दिवसवासरौ" इत्यमरः । अर्थ=विषयं, अतिक्रान्तमिति अत्यर्थम् एव = अधिकमेव तन्वी क्षीणा=कृशा, इत्यर्थः । क्षणम् =उत्सवं, निर्व्यापारस्थितिं वा ददातीति क्षणदा=रात्रिः च इति = एतौ उभौ=द्वौ विरोधस्य क्रिया तया विरोधक्रियया=प्रणयकलहादिविरुद्धाचरणेन विभिन्नौ = प्रथक् भूतौ अनुशयनम् अनुशयः, अनुशयेन = अनुतापेन सहितौ सानुशयौ “अथानुशयो दीर्घद्वेषानुतापयोः” इत्यमरः । जाया च पतिश्चेति जायापती =भार्यापती इव=यथा आस्ताम् = अभूताम् ।
समासः-प्रवृद्धः तापः यस्य स प्रवृद्धतापः । विरोधस्य क्रिया विरोधक्रिया तया विरोधक्रियया । अनुशयेन सहितौ सानुशयौ । जाया च पतिश्चेति जायापती।
हिन्दी--अत्यन्त सन्ताप वाला ( गरमी से तपा, कष्ट देने वाला ) दिन तथा एकदम छोटी रात ये दोनों उन पश्चात्तापभरे ( पछताते हुए ) पति पत्नी के समान हो गए ( दीखने लगे) जो कि आपस में प्रणय कलह करके अलग-अलग हो गये हों ॥ ४५ ॥
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
उद्दण्डप- गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ ४६ ॥ दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्गयस्तानि विमुञ्चत् । अत एवोद्दण्डपमं गृहदीर्घिकाणामम्भः। नारीनितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव । विहारयोग्यमभूदित्यर्थः । 'प्रमाणे द्वयसच्-' इति द्वयसच्प्रत्ययः ॥
अन्वयः–दिने दिने शैवलवन्ति अधस्तात् सोपानपर्वाणि विमुञ्चत् अत एव उद्दण्डपद्म गृहदीर्घिकाणाम् अम्भः नारीनितम्बद्वयसं बभूव । - व्याख्या–दिने दिने = प्रतिदिनम् जले शेते तिष्ठतीति शैवलम् , शैवलमस्ति येषां तानि शैवलवन्ति =शेवालवन्ति अधस्तात् =अधोभागे यानि सोपानानाम् = आरोहणानाम् पर्वाणि = भंग्यः तानि सोपानपर्वाणि विमुञ्चत् = त्यजत् अत एव उत् = उपरि आगतं दण्डं = कमलनालं यस्य तत् उद्दण्डं च पञ= कमलं यस्मिन तत् उद्दण्डपमं गहस्य =भवनस्य दीधिका:=वाप्य स्तासां गृहदीर्घिकाणाम् अम्भः = जलम् नार्याः = स्त्रियाः नितम्बः = स्त्रीकटीपश्चाद्भागः इति नारीनितम्बः प्रमाणमस्ति अस्य तत् नारीनितम्बद्वयसं बभूव = जातम् , स्त्रीणां विहारयोग्यं जातमित्यर्थः। __ समासः-सोपानानां पर्वाणि सोपानपर्वाणि तानि सोपानपर्वाणि । उद्दण्डं पद्मं यस्मिन् तत् उद्दण्डपद्मम् । गृहस्य दीर्घिकाः तासां गृहदीर्घिकाणाम् । नार्याः नितम्बः प्रमाणमस्य तत् नारीनितम्बद्वयसम् ।
हिन्दी-"ग्रीष्म ऋतु के कारण" प्रतिदिन ( रोज-रोज ) काई लगे सीढ़ियों के डण्डों को छोड़ता हुआ ( कम होता हुआ ) और इसीलिये कमल की नाल जिसमें ऊपर निकल आई है