________________
षोडशः सर्गः
३३३
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ।। ३२ ॥ धातूनां गैरिकादीनां भेदेनारुणा याननेमी रथचक्रधारा यस्य। प्रयाणे ये ध्वनयः क्ष्वेडहेषादयः तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः कुशः। पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन् । विन्ध्यं व्यलङ्घयत् ॥
अन्वयः-धातुभेदारुणयाननेमिः प्रयाणध्वनिमिश्रतूर्यः सः प्रभुः पुलिन्दैः उपपादितानि उपायनानि पश्यन् विन्ध्यं व्यलंघयत् ।
व्याख्या-धातूनां -गैरिकादीनां भेदेन = पेषणेन अरुणा=आरक्ता यानस्य = रथस्य नेमिः = चक्रधारा यस्य स धातुभेदारुणयाननेमिः, प्रयाणे = गमने ये ध्वनयः = क्ष्वेडहेषादयः इति प्रयाणध्वनयस्तैः मिश्राणि = मिलितानि तूर्याणि = मुरजादोनि यस्य स प्रयाणध्वनिमिश्रतूर्यः, सः= कुशः प्रभुः =स्वामी राजा पुलिन्दैः = किरातैः उपाय्यन्ते इति तानि उपपादितानि = आनीय समर्पितानि उपायनानि = उपहारान् पश्यन् = अवलोकयन् विन्ध्यं = विन्ध्यनामानं पर्वतं व्यलंघयत् = उल्लंधितवान् ।
समासः-यानस्य नेमिः याननेमिः, धातूनां भेदः धातुभेदः तेन अरुणा याननेमिः, यस्य स धातुभेदारुणयाननेमिः, प्रयाणे ये ध्वनयः तैः मिश्राणि तूर्याणि यस्य स प्रयाणध्वनिमिश्रतूर्यः ।
हिन्दी-सेना के पहियों से पिसे, गेरू आदि धातुओं की धूल से जिसके रथ के पहिये लाल हो गये हैं और चलती हुई सेना के होहल्ले से जिसकी तुरही आदि की ध्वनि मिल गई थी, अर्थात् सेना के शब्द से बाजों के शब्द दब गये थे, ऐसे राजा कुश विन्ध्यवासी भिल्लों को भेंट की सामग्री को देखते हुए, विन्ध्याचल को लाँघ गये ( पार कर गये ) ॥ ३२ ॥
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।
अयत्नबालव्यजनीबभूवुहंसा नभोलङ्घनलोलपक्षाः ॥ ३३ ॥ तदीये वैन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां पश्चिमवाहिनीं गङ्गामुत्तरतोऽस्य कुशस्य नभोलङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन् । अभूततद्भावे च्विः ॥
अन्वयः-तदीये तीर्थे गजसेतुबन्धात् प्रतीपगां गंगाम् उत्तरतः अस्य नभोलङ्घनलोलपक्षाः हंसाः अयत्नबालव्यजनीबभूवुः ।
व्याख्या-तस्य विन्ध्यस्य अयं तदीयस्तस्मिन् तदीये वैन्ध्ये तीर्थ =अवतारे गजाः= नागाः एव सेतुः=आलिः, इति गजसेतुस्तस्य बन्धः निर्माणं तस्मात् गजसेतुबन्धात् प्रतीपं = विरुद्धं गच्छतीति प्रतीपगा तां प्रतीपगां=पश्चिमवाहिनीं गंगां=भागीरथीम् उत्तरतः परतीरं गच्छतः अस्य राज्ञः कुशस्य नभसि = आकाशे लंघनं गमनं तेन नभोलङ्घनेन लोलाः= चञ्चलाः पक्षाः = गरुतः येषां ते नभोलंघनलोलपक्षाः, हंसाः=मानसौकसः, न बालव्यजनमिति