________________
३३२
रघुवंशे
व्याख्या-नयतीति नेता तस्य नेतुः = नायकस्य तस्य =कुशस्य द्वाभ्यां =मुखशुण्डाभ्यां पिबन्तीति द्विपाः= गजास्तेषां द्विपानां मदस्य = कटस्य वारि = जलं तेन मदवारिणा सेकः= -सेचनमिति मदवारिसेकस्तस्मात् मदवारिसेकात् तुरेण = वेगेन गच्छन्तीति तुरंगमास्तेषां तुरंगमाणाम् = अश्वानाम् खुराणां = शफानाम् अभिघातः=ताडनं तस्मात् खुराभिघातात् च= समुच्चये, पथि = मागें रेणुः = धूलिः पंकस्य भावस्तं पंकभावं = कर्दमत्वं प्रपेदे=प्राप्ता पंकः = कर्दमः अपि रेणुत्वं = धूलिभावम् इयाय = गतः । “रेणुयोः स्त्रियां धूलिः” इत्यमरः ।
समास:-मदस्य वारि मदवारि, मदवारिणा सेकस्तस्मात् मदवारिसेकात् । खुराणाम् अभिवातस्तस्मात् खुराभिघातात् । पंकस्य भावस्तं पंकभावम् ।
हिन्दी--राजा कुश के हाथियों के मद जल से भींगने से रास्ते की धूली कीचड़ बन गई। और घोड़ों के खुरों की चोट ( टाप ) से कीचड़ भी धूली बन गया। हाथी और घोड़ों के आधिक्य से ऐसा हुआ ॥ ३०॥
मार्गेषिणी सा कटकान्तरेषु वैन्ध्येयु सेना बहुधा विभिन्ना ।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ ३१ ॥ वैन्ध्येषु विन्ध्यसंबन्धिषु कटकान्तरेषु नितम्बावकाशेषु । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । मागैषिणी मार्गावलोकिनी। अत एव बहुधा विभिन्ना। महाविरावा दोर्घशब्दा सा सेना। रेवेव नर्मदेव। 'रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका' इत्यमरः। गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ॥
अन्वयः-वैन्ध्येषु कटकान्तरेषु मागैषिणी "अत एव" बहुधा विभिन्ना महारावा सा सेना रेवा इव गुहामुखानि बद्धप्रतिश्रुन्ति चकार।।
व्याख्या-विरुद्धं ध्वायति वि इध्यते वा विन्ध्यः विन्ध्ये भवाः वैन्ध्यास्तेषु वैन्ध्येषु = विन्ध्यपर्वतसम्बन्धिषु कटकानाम् ==अद्रिनितम्बानां, पर्वतमध्यभागानामित्यर्थः । अन्तराणि = अव. काशास्तेषु कटकान्तरेषु मार्ग = पन्थानम् इच्छति तच्छीला मागैषिणी =मार्गावलोकिनी, मार्गान्वेषिणीत्यर्थः । अत एव बहुधा =अनेकधा विभिन्ना= विभक्ता महान् = दीर्घः विरावः = शब्दः यस्याः सा महाविरावा सा सेना= वाहिनी रेवा = नर्मदा इव=यथा गुह्यते याभिस्ताः गुहाः गुहानां = गह्वराणां मुखानि = अग्रभागाः इति गुहामुखानि तानि, प्रति = प्रथमशब्द लक्ष्योकृत्य श्रूयते इति प्रतिश्रुत् = प्रतिध्वनिः । बद्धा प्रतिश्रुत् येषु तानि बद्धप्रतिश्रुन्ति तानि, चकार = कृतवती।
समासः—मार्गस्य एषिणी मार्गेषिणो। कटकानां अन्तराणि तेषु कटकान्तरेषु । महान् विरावः यस्याः सा महाविरावा । गुहानां मुखानि, तानि गुहामुखानि। बद्धा प्रतिश्रुत् येषु तानि बद्धप्रतिश्रुन्ति, तानि।
हिन्दी-मार्ग की खोज में लगी वह सेना, विन्ध्यपर्वत की वाटियों में अनेक टुकड़ियों में बँटी हुई, तथा नर्मदा नदी के समान गम्भीर गर्जन करती हुई चल रही थी, तब उस पर्वत की गुफाओं को प्रतिध्वनित कर दिया था। अर्थात् गूंजा दिया था ॥ ३१॥