________________
रघुवंशे
आतपत्रमेवामलं मण्डलं बिम्बं यस्य तेन तेन कुशेन पूर्वनिवासभूमिमयोध्यां प्रति प्रस्थापितो बलौघः । आतपत्रवदमलमण्डलेनोदितेन शशिना वेलां नीयमानः प्राप्यमाणः । उदकमस्यास्तीत्युदन्वान् उदधिरिव बभौ । 'उदन्वानुदधौ च' इति निपातनात्साधुः ॥
३३०
अन्वयः - आतपत्रामलमण्डलेन तेन पूर्वनिवासभूमि 'प्रति' प्रस्थापितः बलौघः उदितेन शशिना वेलां नीयमानः उदन्वान् इव बभौ ।
व्याख्या - आतपात् = धर्मात् त्रायते इति आतपत्त्रं = छत्रम् एव अमलं = विशुद्धं मण्डलं = बिम्बं यस्य स तेन आतपत्रामलमण्डलेन तेन = राज्ञा कुशेन निवासस्य भूमिरिति निवासभूमिः, पूर्वेषां = रघुवंशीयानां निवासभूमिः = राजधानी तां पूर्व निवासभूमिम्, अयोध्यां प्रति प्रस्थापितः = प्रेषित: बलस्य = सेनायाः ओघ : = समूह:, इति बलौघः, आतपत्रवत् = श्वेतच्छत्रवत् अमलं = निर्मलं मण्डलं यस्य स तेन तथोक्तेन उदितेन = उदयं गतेन शशिना = चन्द्रेण वेलां = सागरतटं नीयतेऽसौ नीयमानः = प्राप्यमाणः उदकं = जलमस्यारतीति उदन्वान् = समुद्रः इव = यथा बभौ = शुशुभे ।
=
समासः - आतपत्रमेव अमलं मण्डलं यस्य स तेन आतपत्रामलमण्डलेन | चन्द्रपक्षेआतपत्रवत् अमलं मण्डलं यस्य स तेन तथोक्तेन । पूर्वेषां निवासस्य भूमिरिति पूर्वनिवासभूमिस्तां पूर्वनिवासभूमिम् । बलस्य ओघः बलौघः।
हिन्दी—श्वेतछत्ररूपी स्वच्छ मण्डल वाले ( सुफेदछत्रधारी ) कुश के द्वारा अपने पूर्वजों की राजधानी अयोध्या की ओर ले जाई जाती वह सेना उसी प्रकार सुशोभित हो रही थी, जैसे कि श्वेतच्छत्र के समान निर्मल बिम्बवाले उदय हुआ चन्द्रमा, सागर को किनारे की ओर खींच ले जाता है ॥ २७ ॥
तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् ।
वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ।। २८ ।।
प्रयातस्य प्रस्थितस्य तस्य कुशस्य वरूथिनीनां सेनानां कर्त्रीणाम् । 'कर्तृकर्मणोः कृति' इति कर्तरि षष्ठी । पीडां सोढुमपर्याप्तवतीवाशक्तेव वसुंधरा रजश्छलेन द्वितीयं विष्णुपदमाकाशमध्यारुरोहे । इत्युत्प्रेक्षा ॥
अन्वयः - प्रयातस्य तस्य वरूथिनीनां पीडां सोढुम् अपर्याप्तवती इव वसुन्धरा रजश्छलेन द्वितीयं विष्णुपदम् अध्यारुरोह इव ।
व्याख्या— प्रयातस्य = प्रचलितस्य तस्य = - कुशस्य व्रियते रथो येन स वरूथः = रथावरणम् " वरूथो रथगुप्तिर्ना" इत्यमरः । वरूथाः = रथावरणानि सन्ति यासु ताः वरूथिन्यस्तासां वरूथिनीनां = सेनानां ( कर्त्रीणां ) पोडां = व्यथां दुःखमिति यावत् सोढुं = सहनं कर्तुम् अपर्याप्तवती = असमर्था इव = यथा वसूनि = रत्नानि दधातीति वसुन्धरा = पृथिवी, रजसः = परागस्य छलं=व्याजस्तेन रजश्छलेन धूलीव्याजेन द्वाभ्यां पूर्णम् द्वितीयं तत् द्वितीयं विष्णोः पदं = स्थानमिति विष्णुपदम् = आकाशम् अध्यारुरोह = अधिरूढा इवेत्युत्प्रेक्षायाम् ।